SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ स्वोपालघुवृत्तिः। अर्हम् । तदस्याऽस्त्यस्मिन्निति मतुः।७।२।। तदिति स्यन्तादस्यति षष्ठ्यर्थे स्मिन्निति ड्यर्थे वा मतुः स्यात् । चेत् स्यन्तमस्तीति । गोमान । वृक्षवान गिरिः । अस्तीति किम् । गावोऽस्यासन् । इतः प्रायो भूमादौ मत्वादयः ॥१॥ आयात् । ७।२।। रूपात् प्रशस्ताहतादित्यायविधेर्वक्ष्यमाणप्रकृतिभ्यो मतुः स्यात् । तदस्यास्ति । तदस्मिन्नस्तीति विषये । कुमारीमान् । व्रीहिमान् ॥२॥ नावादेरिकः।७।२।३। एम्यो मत्वर्थे इकः स्यात् । नाविकः। नौमान् । एवं कुमारिकः । कुमारीमान् ॥ ३॥ शिखादिभ्य इन् । ७।२।४। एभ्यो मत्वर्थे इन् स्यात् । शिखी । शिखावान् । माली । माला वान् ॥ ४॥ बीह्यादिभ्यस्तौ। ७।२।५। एभ्यो मत्वर्थे इकेनौ स्याताम् । व्रीहिकः । वीही। बीहिमान । मायिकः । मायी । मायावान् ॥ ५॥ अतोऽनेकस्वरात् ।७।२।६। अदन्तादनेकखरान्मत्वर्थे इकेनौ स्याताम् । दण्डिकः । दण्डी। दण्डवान् । छत्रिकः । छत्री। छत्रवान् । अनेकखरादिति किम् । खवान् ॥ ६॥ अशिरसोऽशीर्षश्च ।७।२।७।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy