SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ खोपज्ञलघुवृत्तिः। हस्तिपुरुषाद्वाण । ७।१। १४१ । स्यन्ताम्यां प्रमाणार्थाभ्यामाभ्यां षष्ठ्यर्थे ऽण् वा स्यात् । हास्तिनम्। हस्तिमात्रम् । हस्तिदनम् । हस्तिद्वयसं जलम् । एवं पौरुषम् ॥ १४१॥ वोर्द्ध दनवयसट् । ७।१।१४२। ऊर्द्धम् यत्प्रमाणं तदर्थात्स्यन्तात् षष्ठ्यर्थे वैतौ स्याताम् । ऊरुदनम् । ऊरुद्धयसम् । ऊरुमात्रं जलम् । अर्द्धमिति किम् । रज्जुमात्रीमः॥१४२॥ __मानादसंशये लुप् ।७।१।१४३। मानार्थ एव साक्षाद्यः प्रमाणशब्दो हस्तवितस्त्यादिर्नतु रज्वादिः। तस्मात्प्रस्तुतस्य मात्रडादेरसंशये गम्ये लुप् स्यात्। हस्तः। वितस्तिः । मानादिति किम् । ऊरुमात्र जलम् । असंशयइति किम् । शममात्र स्यात् ॥ १४३ ॥ द्विगोः संशये च। ७।१।१४४। मानान्ताद्विगोः संशयेऽसंशये च प्रस्तुतमात्रडादेर्लुप् स्यात् । द्विवितस्तिः । द्विप्रस्थः स्यात् ॥ १४४ ॥ मात्रट । ७।१।१४५। स्यन्तान्मानार्थात् षष्ठ्यर्थे मात्र स्यात संशये। प्रस्थमात्र स्यात् । शनशहिंशतः। ७।१।१४६। शनन्ताच्छदन्ताच्च सङ्ख्यार्थाविंशतेश्च मानवृत्तेः स्यन्तात षष्ठ्यर्थे मात्रट् स्यात् संशये । दशमात्राः स्युः । एवं त्रिंशन्मात्राः । विंशतिमात्राः ॥ १४६ ॥ डिन् । ७।१।१४७।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy