SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ४२२ हैमशब्दानुशासनस्य गच्छतिपथिदूते । ६।३।२०३। अमन्तात्पथिदुते च गच्छत्यर्थे यथोक्तं प्रत्ययः स्यात् । स्रोतः पन्था दुतो वा ग्राम्यः ॥ २०३ ॥ भजति । ६।३। २०४। अमो भजत्यर्थे यथोक्तं प्रत्ययः स्यात् । स्रोप्नः । राष्ट्रियः ॥२०४॥ महाराजादिकण् । ६।३। २०५ । अतोऽमोभजतीकण् स्यात् । माहाराजिकः ॥ २०५॥ अचित्ताददेशकालात । ६।३।२०६। . देशकालवज यदञ्चेतनं तदर्थादमोमजतीकण् स्यात् । आपूपिकः। अचित्तादिति किम् । दैवदत्तः । अदेशेत्यादि किम् । स्रौनः । हैमनः ॥२०६॥ वासुदेवाऽर्जुनादकः । ६।३।२०७। आभ्याममन्ताभ्यां भजत्यर्थे ऽकः स्यात् । वासुदेवकः । अर्जुनकः॥ गोत्रक्षत्रियेभ्योऽका प्रायः ।६।३।२०८॥ ___ गोत्रात्क्षत्रियार्थाचाऽमन्ताद्भजत्यऽका प्रायःस्यात् । औपगवकः । नाकुलकः । प्रायः किम् । पाणिनीयः ॥ २०८ ॥ सरूपाद्रेः सर्व राष्ट्रवत् ।६।३।२०९। राष्ट्रक्षत्रियार्थात् सरूपाद्योऽद्विरुक्तस्तदन्तस्याऽममजस्यर्थे सर्व प्रकृतिः प्रत्ययश्च राष्ट्रस्येव स्यात् । वायं माद्रं पाण्ड्यं वा भजति वृजिकः मद्रकः पाण्डवकः । सरूपादिति किम् । पौरवीयम् ॥२०९ ॥ टस्तुल्यदिशि । ६।३ । २१० ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy