SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। ३९१ आभ्यां सास्य देवतेति विषये इकण् स्यात् । माहाराजिकः । प्रौष्ठपदिकः ॥ ११०॥ कालाद्भववत् । ६।२।१११ । कालविशेषार्थेभ्यो यथाभवे प्रत्यया वक्ष्यन्ते । तथा सास्य देवतेति विषयेऽपि स्युः । यथा मासेमवं मासिकम् । प्रादृषि प्रावृषेण्यम् । तथा मासप्रावृदेवताकमपि ॥ १११॥ आदेश्छन्दसः प्रगाथे। ६।२।११२। प्रथमान्तादादेश्छन्दसोऽस्येति षष्ठयर्थे यथाविहितं प्रत्ययः स्यात् प्रागाथे वान्ये । पांक्तः प्रगाथः । आदेरिति किम् । अनुष्टुब्मध्यमस्य प्रगाथस्य ॥ ११२॥ योद्धृप्रयोजनायुद्धे । ६।२।११३ । प्रथमान्ताद्योऽर्थात्प्रयोजनार्थाच्च षष्ठ्यर्थे युद्धे यथाविहितं। प्रत्ययः स्यात् । वैद्याधरं युद्धम् । सौभद्रं युद्धम् ॥ ११३ ॥ भावघञोऽस्यां णः।६।२।११४। भावेघनन्तात्प्रथमान्तादस्यामित्यर्थे णः स्यात् । प्रापाता तिथिः । भावेति किम् । प्राकारोऽस्याम् ॥ ११४ ॥ श्यैनम्पातातैलम्पाता।६।२।११५ श्येनतिलयो वे घान्ते पातेपरे मोन्तः स्यात् । श्यैनम्पाता । तैलंपाता तिथिः क्रियाभूमिः क्रीडा वा ॥ ११५ ॥ प्रहरणाक्रीडायां णः।६।२।११६। प्रहरणार्थात्प्रथमान्तादस्यामिति क्रीडायां णः स्यात् । दाण्डा क्रीडा । क्रीडायामिति किम् । खड्गः प्रहरणमस्यां सेनायाम् ॥ ११६ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy