SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। ३६७ - श्यामलक्षणाद्वाशिष्ठे । ६।१। ७४। आभ्यां वाशिष्ठेऽपत्ये एयण स्यात् । श्यामेयो लाक्षणेयो वाशिष्ठः।। विकर्णकुषीतकात्काश्यपे ।६।१।७५। आभ्यां काश्यपेऽपत्ये एयण स्यात् । वैकर्णेयः । कौषीतकेयः काश्यपः ॥ ७५॥ भुवोभ्रुवच । ६।१। ७६ । भ्रुवोऽपटे एयण स्यात् भ्रुवश्च ध्रुव । भ्रौवेयः ॥ ७६ ॥ कल्याणादेरिन्चान्तस्य ।६।१।७७। एभ्योऽपत्ये एयण स्यादन्तस्यचेन् । काल्याणिनेयः । सौभागिनेयः ॥ ७७ ॥ कुलटाया वा । ६।१। ७८ । अस्मादपत्ये एयण स्यात्तद्योगे चान्तस्येन्वा। कौलटिनेयः । कौलटेयः ॥ ७८॥ चटकाण्णैरः स्त्रियां तु लप।६।१।७९। अस्मादपत्ये गैरः स्यात् स्त्र्यर्थस्य च गैरस्य लुप् । चाटकरः। चटकाः॥ क्षुद्राभ्य एरण वा।६।१।८०। अङ्गहाना अनियतपुंस्कावा स्त्रियः क्षुद्राः, क्षुद्रार्थेभ्यः स्त्रीभ्य एरण्या स्यात् । काणेरः । काणेयः । दासेरः । दासेयः ॥ ८० ॥ गोधाया दुष्टे णारश्च ।६।१।८१ । __गोधाया दुष्टेऽपत्ये णार एरण् च स्यात् । गौधारः। गौधेरः,गोधाया- . महिजातः ॥ ८१ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy