SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ स्वोपाल कृतिः । सन्नन्तस्य यस्न्तस्य चाद्यएकस्वरोंऽशो दिः स्यात् । तितिक्षते । पापच्यते ॥ ३॥ स्वरादेद्वितीयः। ४।१।४। स्वरादेवमुक्तिभाजोद्वितीयोऽश एकस्वरोद्विः स्यात् । अटिटिषति । अशाश्यते । प्राक्तुस्वरे स्वरविधेरित्येव । आटिटत् ॥ ४ ॥ न बदनं संयोगादिः।४।१।५। स्वरादेर्दातोद्वितीयस्यांशस्यैकस्वरस्य बदनाः संयोगस्याद्या न द्विः स्युः । उब्जिजिषति । अट्टिटिषति । उन्दिदिषति । संयोगादिरिति किम् । प्राणिणिषति ॥ ५ ॥ आयिरः।४।१।६। स्वरादेर्दातोद्धितीयस्यांशस्यैकस्वरस्य संयोगादीरोदिन स्यात् नतु रादनन्तरे यि । अर्चिचिषति । अयीति किम् । अरार्यते ॥ ६ ॥ नाम्नोद्वितीयाद्यथेष्टम्। ४।१।७। स्वरादेर्नामधातोदित्वमाजोद्वितीयादारभ्येकस्वरोंऽशोयथेष्टं दिः स्यात् । अशिश्वीयिषति । अश्वीयियिषति । अश्वीयिषिषति ॥ ७ ॥ अन्यस्य । ४।१।८। ___ स्वरादेर्नामधातोरन्यस्य द्वित्वमाज एकस्वरोंशोयथेष्टं प्रथमादिदिः स्यात् । पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिषति । पुत्रीयिषिषति ॥ ८॥ कण्ड्वादेस्तृतीयः।४।१।९। कण्ड्वादेर्दित्वभाज एकस्वरोंऽशस्तृतीया एवद्विः स्यात् । कण्डूयियिषति । असूयियिषति ॥ ९॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy