SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य आभ्यां कर्त्तर्यद्यतन्यां ङोवा स्यात् । अदधत् । अधात् । अशिश्वियत् । अश्वत्कर्त्तरीत्येव । अधिषातां गावौ वत्सेन ॥ ५९ ॥ शास्त्यऽसूवक्तिख्यातेरङ् । ३ । ४।६०। एभ्यः कर्त्तर्यद्यतन्यामङ् स्यात् । अशिषत् । अपास्थत् । अवोचत्। आख्यत् । कर्त्तरीत्येव । अशासिषातां शिष्यौ गुरुणा ॥ ६० ॥ सर्त्त्यर्त्ते र्वा । ३ । ४ । ६१ । आभ्यां कर्त्तर्यद्यतन्यामङ् वा स्यात् । असरत । असार्षीत् । आरत् । आर्षीत् ॥ ६१ ॥ हालिप्सिचः । ३ । ४ । ६२ । एभ्यः कर्त्तर्यद्यतन्यामङ् स्यात् । आह्वत् । अलिपत् । असिचत् ॥ वात्मने । ३ । ४ । ६३ । ह्वादेः कर्त्तर्यद्यतन्यामात्मनेपदे वाऽङ स्यात् । आह्वत । आह्वा स्त । अलिपत । अलिप्त । असिचत । असिक्त ॥ ६३ ॥ लृदिद्युतादिपुष्यादेः परस्मै | ३ | ४ | ६४ | तितादेः पुष्यादेश्व कर्त्तर्यद्यतन्यां परस्मैपदेऽङ् स्यात् । अगमत् । अद्युतत् । अरुचत् । अपुषत् । औचत् । परस्मैपद इति किम् । समस्त ॥ ६४ ॥ ऋदिच्छ्रिस्तम्भूम्रुचूम्लुचूयुचूग्लुचूग्लुंचूजो वा । ३ । ४ । ६५ । ऋदितः ख्यादेश्व कर्त्तर्यद्यतन्यां परस्मैपदेऽङ् वा स्यात् । अरुधत् । अरौत्सीत् । अश्वत् । अश्वयीत् । अस्तभत् । अस्तम्भीत । अनुचत् ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy