SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य १४. अस्मारकर्मणः कृतावर्थे क्यन्वा स्यात् । तपस्यति ॥ ३६ ॥ नमोवरिवश्चित्रङोऽर्चासेवाश्चर्ये।३।४।३७ ___ एभ्यः कर्मभ्योयथासंख्यमर्चादिष्वर्थेषु क्यन्वा स्यात् । नमस्यति । वरिवस्यति । चित्रीयते ॥ ३७॥ __ अङ्गान्निरसने णि।३।४।३८। - अङ्गवाचिनः कर्मणोनिरसनेऽर्थे णिङ् वा स्यात् । हस्तयते । पादयते ॥ ३८॥ पुच्छादुत्परिव्यसने । ३।४।३९ । पुच्छात्कर्मण उदसने पर्यसने व्यसनेऽसने चार्थे णिङ् वा स्यात् । उत्पुच्छयते । परिपुच्छयते । विपुच्छयते । पुच्छयते ॥ ३९ ॥ भाण्डात्समाचितौ।३।४।४० । माण्डात्कर्मणः समाचितावर्थे णि वा स्यात् । सम्भाण्डयते । परिमाण्डयते ॥ ४०॥ चीवरात्परिधानार्जने ।३।४।४१ । अस्मात्कर्मणः परिधानेऽर्जने चार्थे णिङ् वा स्यात् । परिचीवरयते । संचीवरयते ॥४१॥ णिज्बहुलं नाम्नः कृगादिषु।३।४।४२। _कृगादीनां धातूनामर्थे नानोणिज्बहुलं स्यात् । मुण्डङ्करोति मुण्डयति च्छात्रम् । पटुमाचष्टे पटयति । वृक्ष रोपयति वृक्षयति । कृतं गृह्णाति कृतयति ॥ ४२ ॥ बताद्भुजितन्निवृत्त्योः । ३।४।४३।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy