SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ हैमशन्दानुशासनस्य इर्वृद्धिमत्यविष्णौ । ३।२।४३ । विष्णुवर्जे वृद्धिमत्युत्तरपदे देवताबन्दे अग्नेरिः स्यात् । अग्निवारुणीमनड्वाहीमालभेत। वृद्धिमतीति किम् । अग्नीवरुणौ । अविष्णाविति किम् । आग्नावैष्णवं चरुं निर्वपेत् ॥ ४३ ॥ दिवो द्यावा।३।२।४४। देवताद्वन्दे दिव उत्तरपदे द्यावेति स्यात् । द्यावाभूमी ॥ ४४ ॥ दिवस दिवः पृथिव्यां वा ।३।२।४५॥ देवताद्वन्द्वे दिवः पृथिव्यामुत्तरपदे एतौ वा स्याताम् । दिवस्पृथिव्यौ । दिवः पृथिव्यौ । द्यावापृथिव्यौ ॥ ४५॥ - उषासोषसः ।३।२।४६ । देवताइन्द्रे उषस उत्तरपदे उषासा स्यात् । उपासासूर्यम् ॥४६॥ मातरपितरं वा ।३।२।४७। मातृपित्रोः पूर्वोत्तरपदयोईन्द्रे ऋतोऽरो वा निपात्यते । मातरपितरयोः । मातापित्रोः ॥४७॥ वर्चस्कादिष्ववस्करादयः। ३।२।४८। ___ एष्वर्थेष्वेते कृतशषसाद्युत्तरपदाः साधवः स्युः। अवस्करोऽन्नमलम् । अवकरो ऽन्यः। अपस्करोरथाङ्गम् । अपकरोऽन्यः ॥४८॥ परतः स्त्री पुम्वत् स्त्र्येकार्थेऽन।३।२।४९। परतोविशेष्यवशात् स्त्रीलिङ्गः स्त्रीवृत्तावेकार्थे उत्तरपदे पुम्वत्स्यात् । नतूङन्तः। दर्शनीयभार्यःपरतइति किम् । द्रोणीभार्यः। स्त्रीति किम्।खलपुदृष्टिः। स्त्र्येकार्थ्यइति किम् । गृहिणीनेत्रः। कल्याणीमाता।अनूडिति किम्। करभोरूभार्यः ॥ ४९॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy