SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । सौ नवेतौ । १ । २ । ३८। सिनिमित्त ओदन्त इतौ परे सन्धिर्वा स्यात् । पटो इति । पटविति । ॐ चोञ् । १२ । ३९। उञ् चादिरितौ परेsसन्धिर्वा स्यात् । असन्धौ च उज्ऊँइति rasaसको वा स्यात् । उ इति । ॐ इति । विति ॥ ३९ ॥ अञ्वर्गात् स्वरे वो ऽसन् । १ । २।४० । ञवर्ज वर्गेभ्यः परः उञ्स्वरे परे वो वा स्यात् सचासन् । कुङ्कास्ते । क्रुङ्कुआस्ते । असत्वाद्वित्वम् ॥ ४० ॥ अ इ उ वर्णस्यान्तेऽनुनासिकोऽनी दादेः । १ । २ । ४१ । १३ अ इ उ वर्णानामन्तेविरामेऽनुनासिको वा स्यात् । नचेदेते ईदूदेद्विवचनमित्यादि सूत्रसम्बन्धिनः स्युः । सा । साम । खड़ा । खट्वा । धँ । दधि । कुमारी । कुमारी । मधु । मधु । अनीदादेरिति किम् । अमी । अमी किमु ॥ ४१ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ शब्दानुशासनलघुवृत्तौ प्रथमस्याध्यायस्य द्वितीयपादः समाप्तः | १| २ || तृतीयस्य पञ्चमे । १ । ३ । १ । वेति पदान्त इति अनुनासिकइति च अनुवर्त्तते । वर्गतृतीयस्य पदान्तस्थस्य पञ्चमे परेऽनुनासिको वा स्यात् । वाङ्कवते । वाग्वते । ककुम्मण्डलम् । ककुब्मण्डलम् ॥ १ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy