SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ܘܐ हैम शब्दानुशासनप 'ऊन्नन्ताद्बहुव्रीहेः स्त्रियां ङीः स्यात् । कुण्डोनी ॥ ७ ॥ अशिशोः । २ । ४।८। अशिशुइति बहुव्रीहेः स्त्रियां ङीः स्यात् । अशिश्वी ॥ ८ ॥ संख्यादेर्हायनाद्वयसि । २ । ४ । ९ । संख्यादेहयनान्ताद्बहुव्रीहेः स्त्रियां ङीः स्यात् । वयसि गम्ये त्रिहायणी | चतुर्हायणी वडवा । वयसीति किम् । चतुर्हायना शाला ॥ दाम्नः । २ । ४ । १० । संख्यादेर्दा मन्नन्ताद्बहुव्रीहेः स्त्रियां ङीः स्यात् । द्विदाम्नी । संख्यादेरित्येव । उद्दामानं पश्य ॥ १० ॥ अनो वा । २ । ४ । ११ । अन्नन्ताद्बहुव्रीहेः स्त्रियां ङीर्वा स्यात् । बहुराइयौ । बहुराजे | बहुराजानौ ॥ ११ ॥ नाम्नि । २ । ४ । १२ । अन्नन्ताद्बहुव्रीहेः स्त्रियां संज्ञायां नित्यं ङीः स्यात् । अधिराज्ञी । सुराज्ञी नाम ग्रामः ॥ १२ ॥ नोपान्त्यवतः । २। ४ । १३ । यस्योपान्त्यलग्नास्ति तस्मादन्नन्ताद्बहुव्रीहेः स्त्रियां ङीर्न स्यात् । सुपर्वा । सुशर्मा । उपान्त्यवतइति किम् । बहुराज्ञीः ॥ १३ ॥ मनः । २ । ४ । १४ । मन्नन्तात् स्त्रियां ङीर्न स्यात् । सीमानौ ॥ १४ ॥ ताभ्यां वापू डित् । २।४।१५।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy