SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ मृदश्मकाष्ठमय्यः प्रतिमाः श्रेयसपूजासत्कारेणोपचर्यन्ते । किं पुनः प्रत्यक्षदेवस्य चन्द्रापीडनामान्तरितस्य चन्द्रमसो मूर्तिरनाराधितप्रसन्ना। इत्युक्तवत्यां महाश्वेतायां कादम्बरी तूष्णीमेवोत्थाय तरलिकया मदलेखया चोत्थाप्य तामखेदात् चन्द्रापीडतनुम्, अन्यतरस्मिञ्छीतवातातपर्वर्षादिसर्वद्वन्द्वदोषरहिते शिलातले शनैःशनैरखेदयन्ती स्थापयित्वा, अपनीतशृङ्गारवेषाभरणा, मङ्गलमात्रकावस्थापितैककररत्नवलया, स्नानशुचिर्भूत्वा परिधाय धौतशुचिनी दुकले, प्रक्षाल्य पुनःपुनर्गाढलग्नमधरकिसलये ताम्बूलरागम्, उपर्युपरि निमीलितागतबाष्पवेगोत्तरललोचना, अन्यदेव किमप्यचिन्तितमनुठोक्षितमशिक्षितमनभ्यस्तमनुचितमपूर्वं बाला बलाद्विलोमप्रकृतिनाकार्यपण्डितेन दग्धवेधसा कार्यमाणा, यान्येव सुरभिकुसुमधूंपानुलेपनानि सुरतोपभोगायानीतानि तैरेव देवतोचितामपचितिं संपाद्य चन्द्रापीडमूर्ती, मूर्तिमतीव शोकवृत्तिरार्तरूपा रूपान्तरमिव क्षणेनेवा - *********** काष्ठं दारु, एतैर्निष्पन्ना मृदश्मकाष्ठमय्यः प्रतिमा मूर्तयः श्रेयोहेतुत्वाच्छ्रेयसानि दधिदूर्वादीनि, पूजार्चा पुष्पादिभिः, सत्कारोऽभ्युत्थानादिः, एतेषां समाहारस्तेनोपचर्यन्ते पूज्यन्ते । किं पुनः प्रत्यक्षदेवस्य चन्द्रापीडॅनाम्नोऽन्तरितस्य व्यवहितस्य चन्द्रमसो मूर्तिः प्रतिमाऽनाराधितप्रसनानासेवितप्रमुदिता। - इत्युक्तवत्यां महाश्वेतायां कादम्बरी तूष्णीं मौनमेवोत्थायोत्थानं कृत्वा तरलिकया मदलेखया च तामखेदाहाँ सुकुमारां चन्द्रापीडतनुमुत्थाप्य तत उत्थानं कारयित्वान्यतरस्मिञ्छीतं च वातश्चातपश्च वर्षा च शीतवातातपवर्षास्ता एवादौ येषामेवंविधाः सर्वद्वन्द्वदोषास्तै रहिते वर्जिते । एतत्प्रतिपक्षग्रहणाद्वन्द्वता बोध्या । शिलातले शनैःशनैरखेदयन्ती सादमनुत्पादयन्ती स्थापयित्वा स्थापनां कृत्वापनीतो दूरीकृतः श्रृङ्गारवेष आभरणं च यया सा । केवलं मङ्गलार्थं मङ्गलमात्रमवस्थापितमवस्थानं कारितमेकैकरे रत्नवलयं मणिकटकं यया सा । स्नानेनाप्लवेन शुचिर्भूत्वा धौते क्षालिते शुचिनी पवित्रे दुकूले चोचे परिधाय परिधानं कृत्वा गाढलग्नमत्यन्तसंयुक्तमधरकिसलय ओष्ठपल्लवे ताम्बूलरागं पुनःपुनर्वारंवारं प्रक्षाल्य प्रक्षालनं कृत्वोपर्युपरि निमीलिते मुद्रित आगतबाष्पवेगे समागतनेत्राथुरये उत्तरललोचने चञ्चलनयने यस्याः सैवंविधा कादम्बरी बाला बलाद्धठाद्विलोमप्रकृतिना प्रतिकूलस्वभावेनाकार्यपण्डितेनाकृत्यविचक्षणेन दग्धवेधसा ज्वलितविधानान्यदेव किमप्यचिन्तितमविमृष्टमनुत्प्रेक्षितमतर्कितमशिक्षितमपठितमनभ्यस्तं पुनः पुनः कृतापरिवर्तनमनुचितमन्याय्यमपूर्वमभिनवं कार्यमाणा विधाप्यमाना, यान्येव सुरभिकुसुमधूपानुलेपनानि सुरभिकुसुमानि सुगन्धपुष्पाणि, धूपः प्रसिद्धः, अनुलेपनं विलेपनं एतानि सुरतस्य मैथुनस्योपभोगायानीतानि तैरेव चन्द्रापीडमूर्ती चन्द्रापीडस्य शरीरे देवतोचितां देवयोग्यामपचितिमर्चा संपाय विधाय । मूर्तिमती देहधारिणी शोकवृत्तिरिवार्तरूपा पीडास्वरूपा क्षणेनेव समयेनेव - - - - - - - - - - टिप्प० - 1 'प्रतिमाः श्रेयसे (कल्याणाय) पूजानमस्कारेणोपचर्यन्ते इति पाठः । पूजासहितेन ननरकारेण । 2 चन्द्रापीडेति नाम्ना अन्तरितस्य, वास्तवे चन्द्रमा एव नाममात्रस्य व्यवधानमित्याशयः । 3 अवस्थापितः एकः करे रत्नवलयो यया, एकैकस्मिन् करे एकमेकं वलयमवस्थापितमित्याशयः । पाठा० - १ काष्ठमयाः. २ पूजानमस्कारेण चन्द्रस्य. ३ प्रत्यक्षदेवस्य चन्द्रस्य. ४ प्रपन्ना. ५ महाभेतायां तूष्णीम. ६ सहोत्थाय. ७ वर्षादिद्वन्द्व. ८ शनैः. ९ स्थापितावशेषरत्नवलया; स्थापयित्वापनीतश्रृङ्गारवेषग्रहणा; मङ्गलमात्रकावस्थापितैककरभूषणा. १० म्नाता शुचिः. ११ किंचिदपि. १२ अनुपक्षिप्तम्. १३ अभ्यस्तम्. १४ अपूर्व विलोम. १५ विलोमप्रकृतिना. १६ अनुलेपनादीनि. १७ आतिरूपा. १८ तत्क्षणेनैवागता; तत्क्षणेनैवोपगता. महाश्वेतोपदेशात्काद०श्चन्द्रा०देहरक्षा उत्तरभागः। 635
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy