SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ तपः । तपसो हि सम्यक्कृतस्य नास्त्यसाध्यं नाम किंचित् । देव्या हि गौर्या तपसः प्रभावादतिदुरासदं स्मरारेरपि यौवदासादितं देहार्धपदम् । एवं त्वमपि नॅचिरात्तथैव मे वयस्यस्याङ्गे निजैतपः प्रभावात्पदमवाप्स्यसि' इति महाश्वेतां पर्यबोधयत् । उपशान्तमन्युवेगायां च महाश्वेतायां विषण्णदीनमुखी कादम्बरी कपिञ्जलमप्राक्षीत् - 'भगवन्कपिञ्जल, पत्रलेखया त्वया चास्मिन्सरसि जलप्रवेशः कृतस्तत्किं तस्याः पत्रलेखायाः संवृत्तमित्यावेदनेन प्रसादं करोतु भगवान्' इति । स तु प्रत्यवादीत् - ‘राजपुत्रि, सलिलपातनन्तरं न कश्चिदपि तद्वृत्तान्तो मया ज्ञातः । तदधुना क्व चन्द्रात्मकस्य चन्द्रापीडस्य, क्वं पुण्डरीकात्मनो वैशम्पायनस्य जन्म, किं वास्याः पत्रलेखाया वृत्तमिति सर्वथैवास्य वृत्तान्तस्यावगमनाय गतोऽहं प्रत्यक्षलोकत्रयस्य तातस्य श्वेतकेतोः पादमूलम्' इत्यभिदधान एव गगनमुदपतत् । १० अथ गते तस्मिन्विस्मयान्तरितशोकवृत्तान्ता चन्द्रापीडमलोक्य गलितनयनपयसि यथास्थानमपसृत्य स्थितवति सपरिजने राजपुत्रलोके कादम्बरी महाश्वेतामवादीत् - 'प्रियसखि, - *********** क्रियताम् । हि यस्माद्धेतोः सम्यक्प्रकारेण कृतस्य तपसश्चान्द्रायणादेः । नामेति कोमलामन्त्रणे । किंचिदसाध्यमकर्तव्यं नास्ति । अत्रार्थे निदर्शनं प्रदर्शयन्नाह - गौर्या पार्वत्या तपसश्चान्द्रायणादेः प्रभावान्माहात्म्यात्स्मरारेपि महादेवस्यापि अतिदुःखेनासाद्यत इति दुरासदम् । अर्ध देहस्य देहार्धः । ‘अर्धं नपुंसक' इति समासः । तदेव पदं स्थानमासादितं प्राप्तम् । एवं त्वमपि नचिरात्स्तोककालेन तथैव वयस्यस्य पुण्डरीकस्याडूके क्रोडे निजतपः प्रभावात्पदमवाप्स्यसीति महाश्वेतां पर्यबोधयव्प्रतिबोधयामास । उपशान्तः प्रशान्तो मन्युवेगः शोकरयो यस्याः सा तस्यां महाश्वेतायां च विषण्णा विलक्षा चासौ दीनमुखी च विषण्णदीनमुखो कादम्बरी कपिञ्जलमप्राक्षीदपृच्छत् - हे भगवन्कपिञ्जल, पत्रलेखया त्वया चास्मिन् सरसि अच्छोदतटाके जलप्रवेशः पानीयावगाहः कृतः । तदिति हेत्वर्थे । तत्तस्मात्तस्याः पत्रलेखायाः किं संवृत्तं किं संजातमित्यावेदनेनेति प्रकथनेन भगवान्कपिञ्जलः प्रसादमनुग्रहं करोतु विदधातु । स तु मुनिः प्रत्यवादीव्यत्यब्रवीत् । किं तदित्याह राजपुत्रीति । हे राजपुत्रि नृपसुते, सलिलपातानन्तरं जलपतनाव्यवहितं तद्वृत्तान्तः पत्रलेखोदन्तो न कश्चिदपि मया ज्ञातोऽवगतः । तस्मादधुना सांप्रतं क्व चन्द्रात्मकस्य शशिस्वरूपस्य चन्द्रापीडस्य जन्मोत्पत्तिः, क्व पुण्डरीकात्मनो वैशम्पायनस्य जन्म, अस्याः पत्रलेखायाः किं वा वृत्तं जातमिति सर्वस्य वृत्तान्तस्यावगमनाय ज्ञानाय प्रत्यक्षलोकत्रयस्य साक्षात्कृतत्रिविष्टपस्य श्वेतकेतुनाम्नो मत्तातस्य पादमूलं चरणसमीपमहं गतैः प्राप्त इत्यभिदधान इति ब्रुवाणो गमनं व्योमोदपतदुत्पतितो बभूव । अथेति । उत्पतनानन्तरं तस्मिन्कपिञ्जले गते याते सति विस्मयेनाश्चर्येणान्तरितो व्यवहितः शोकवृत्तान्तो यस्याः सैवंविधा कादम्बरी महाश्वेतामवादीदवोचत् । कस्मिन्सति । यथास्थानमपसृत्य संस्थितवति सपरिजने सपरिच्छदे राजपुत्रलोके सति । कीदृशे । चन्द्रापीडमालोक्य निरीक्ष्य गलितं च्युतं नयनपयो नेत्रजलं यस्य स तस्मिन् । किमवादीत्तदाह - प्रियेति । हे प्रियसखि हे वल्लभवयस्ये, त्वया सह भक्त्या सार्धं तुल्यं सदृशं दुःखं - टिप्प० - 1 'क्व चन्द्रात्मकस्य चन्द्रापीडस्यात्मा, पुण्डरीकात्मकस्य वैशम्पायनस्य च जन्म, ' इति पाठः । 2 'प्रस्थितोहम्' इति पाठः । अयमहं प्रस्थितो भवामीत्याशयः । - पाटा० - १ अपि २ गौर्यास्तपः ३ समासादितम् ४ अचिरात्. ५ निजतपसः ६ भगवन् ७ तस्याः संवृत्तम् ८ भगवति ९ आयात १० आत्मा. ११ पुण्डरीकात्मकस्य. १२ अवगमाय १३ वृत्तान्ते. १४ आलोक्यालोक्य १५ अपसृत्यापसृत्य १६ संस्थितवती. कपिञ्जलकृतं सान्त्वनम् उत्तरभागः । 633
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy