SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ छयैव मत्करग्रहणाय निर्वर्तितस्नानमिव स्वेदाम्भसा, न युक्तमेव ते परहृदयमविज्ञायोपगन्तुमिति पदे पदे निवार्यमाणमिव गुरुणोरुस्तम्भेन, दूरत एव मदालिङ्गनालीकाशया प्रसारितभुजयुगलम्, उत्कलिकासहस्रविषमं रागसागरमिव प्रतरन्तम्, अनवरतप्रवृत्तैराकृष्यमाणमिव पुरस्ताद्दीघैनिःश्वासमरुद्भिः उह्यमानमिव दिङ्मुखप्लाविना ज्योत्स्नापूरेण, रणरणकशून्यम्, उच्छुष्काननम्, प्रोन्मुक्तं सत्त्वेन, प्रतिपन्नं कृपणतया, अवधीरितं धैर्येण, संगृहीतं तरलतया, विसर्जितं लज्जया, अधिगतं धाष्ट्येन, दूरीकृतं परलोकभीत्या, विमुक्तं युक्तायुक्तविचारेण, संकल्पजन्मन एव केवलं वशे स्थितम्, आविष्टमिव मत्तमिवोन्मादादापतन्तम्, दूरतोऽपि दिवसनिर्विशेषेण चन्द्रातपेन विभाव्यमानं तमेव युवानमद्राक्षम् । दृष्ट्वा च तं तादृशं निःस्पृहाप्यात्मनि परं भयमुपगतवती चेतस्यचिन्तयम् - 'अहो, कष्टमापतितम् । यद्ययमुन्मादादागत्य पाणिनापि स्पृशति मां तदा मयेदमपुण्यहतक शरीर - *********** जलेन निर्वर्तितस्नानमिव विहिताप्लवमिव, परहृदयमन्यचित्तमविज्ञायाज्ञात्वोपगन्तुं तत्समीपे यातुं ते तव न युक्तमेव न न्याय्यमेवेति गुरुणा बृहत्तरेणोरुस्तम्भेन जङ्घास्थूणया पदे पदे निवार्यमाणमिव प्रतिषिध्यमानमिव, दूरत एव दविष्ठत एव मदालिङ्गनस्य मदीयोपगृहनस्यालीकाशया मिथ्यावाञ्छया प्रसारितं विस्तारितं भुजयुगलं बाहुयुग्मं येन स तम् । उत्कलिका हल्लेखास्तासां सहसं तेन विषमं व्याकुलं रागसागरमिवानुरतिसमुद्रमिव प्रतरन्तमुत्तरन्तम् । अनवरतप्रवृत्तैर्निरन्तरप्रवर्तितैर्दी(रायतैनिःश्वासमरुद्भिः घ्राणवायुभिः पुरस्तादग्र आकृष्यमाणमिवाकृष्टिं विधीयमानमिव, दिङ्मुखप्लाविना दिग्वदनक्षालकेन ज्योत्स्नापूरेण चन्द्रिकाप्रवाहेणोह्यमानमिव वहमानमिव, रणरणकेनौत्सुक्येनोत्प्राबल्येन शुष्कं रूक्षमाननं मुखं यस्य स तम् । सत्त्वेन साहसेन प्रोन्मुक्तं व्यक्तम्, कृपणतया प्रतिपनं दैन्यत्वेनाङ्गीकृतम्, धैर्येण धीरिम्पावधीरितमवहीलितम्, तरलतया परिप्लवनया संगृहीतं स्वीकृतम्, लज्जया त्रपया विसर्जितं दूरीकृतम्, धाटान निर्लज्जतागुणेनाधिगतं प्राप्तम्, परलोकभीत्यागामिभवभयेन दूरीकृतम्, युक्तायुक्तविचारेण न्याय्यान्याय्यवितर्केण विमुक्तं त्यक्तम्, केवलं संकल्पजन्मन एव मनोभवस्यैव वशे तन्त्रे स्थितम्, आविष्टमिव भूतगृहीतमिव, मत्तमिव क्षीबमिव, उन्मादाच्चित्तविप्लवत आपतन्तमागच्छन्तम् । दूरतोऽपि दविष्ठादपि दिवसानिर्गतो विशेषो यस्यैवंभूतेन । दिवससदृशेनेत्यर्थः । चन्द्रातपेन शशाङ्कालोकेन विभाव्यमान प्रकाश्यमानम् । अहं तं युवानमद्राक्षमित्यन्वयस्तु पूर्वमुक्तः तं वैशम्पायनं तादृशं तथावस्थं दृष्ट्वा च निरीक्ष्य च निस्पृहापि गततृष्णाप्यात्मनि परं भयमुपगतवती प्राप्तवती इति चेतसि चित्तेऽचिन्तयं चिन्तितवती । अहो इति खेदे । कष्टं कृच्छ्रमापतितम्, यद्ययं युवोन्मादादागत्य मां पाणिना स्पृशति स्पर्श करोति तदा मया महावेतयेदमपुण्यहतक शरीरमुत्सष्टव्यमुज्झितव्यम् । टिप्प० - 1 ऊर्वोः स्तम्भः सात्त्विकभावेन जाड्यम् (अचलनम्) अत्र विवक्षितम् । 2 अनुरागः उत्कलिकानाम् उत्कण्ठानां सहसेण दुस्तरः, सागरस्तु उत्कलिकानां तरङ्गाणां सहसेण । अत एव श्लेषोत्थापितः 'रागसागरः' इति रूपकालंकारः । भुजप्रसारणे च सागरोत्तरणस्योत्प्रेक्षा, इति सेयं प्रधानम् । 3 ज्योत्स्नारूपेण प्रवाहेण प्लाव्यमानमिव (तार्यमाणमिव) । पाठा० - १ मकर. २ अदूरतः. ३ प्रवृत्तेः. ४ रणक. ५ धिकृतम्. ६ भीषया. ७ अङ्गीकृतं स्वरुच्या विमुक्तम्. ८ केवलम्. ९ अकरवम्. १० कष्टतरम्. ११ यययमेवमुन्मादात्; 'यययमेत्य स्वयमुन्मादात्. वैशम्पायनस्य महाचेताऽभिसारः उत्तरभागः। 613
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy