SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे पुनर्लोकस्वरुपमाहवेत्रासनसमोऽधस्तान्मध्यतो झल्लरीनिमः । अग्रे मुरजसङ्काशो लोकः स्यादेवमाकृतिः ॥ १०५ ॥ अधस्तादधोभाग वेत्रासनमधस्ताद विस्तीर्ण पर्युपरिसशोचवत् तत्समस्तदाकारः, मध्यतो मध्ये झल्लरीवाद्यविशेषस्तत्मशः, अग्रे मध्यलोकादुपरि मुरज अर्ध्वमधश्च संकुचितो मध्यभागे विस्तृतो वाद्यविशेषस्तत्मदृशः। एवमधोमध्योर्वेषु आकारत्रययोगी लोकः, यदाहुः-- तत्राधोमुखमलकसंस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव च तिर्यग्लोकमूर्ध्वमथ मल्लकसमुहम् ॥ १॥ - इह चाधस्तिर्यगूख़लोका रुचकापेक्षया। रुचकश्च मेकमध्यगोस्तनाकारचतुराकाशप्रदेशप्रमाणोऽध:, तादृश एवोर्ध्वम्, एवमष्टप्रदेशः, यदाहुः-- 'अट्ठपएसो रुप्रगो तिरियलोगरस मज्मयारम्भि। ' एस पहवो दिसाणं एसेव भवे अणुदिसाणं ॥ १ ॥ तत्र रुचकादध उपरि च नव नव योजनशतानि तिर्यग्लोक इत्युत्सेधेऽष्टादशयोजनशतप्रमाणः, तिर्यग्लीकादधो नवयोजनप्रतोनसप्तरज्जप्रमाणोऽधोलोकः । तत्र सप्त पृथिव्य उक्तरूपाः । तत्र रत्नप्रभायां पृथिव्यामशीतिसहस्राधिकयोजनलक्षबाहल्याया (१) अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य मध्यकारे। एष प्रभवो दिशानामेष एव भवेद हदिशानाम् ॥१॥...
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy