SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रकाशः । आदीपमाव्योम समस्वभावं स्याद्वादमुद्रानतिभेदि वखु । तव्रित्यमेवैकमनित्यमन्यदिति त्वदानादिषतां प्रलापाः ॥ १ ॥ इति ॥ १०३ ॥ लोकस्वरूपमेवाह ८८३ लोको जगचयाकीर्णो भुवः सप्ताव वेष्टिताः । घनाम्भोधिमहावाततनुवातैर्महाबलैः ॥ १०४॥ लोक उक्तखरूपो जगतां लोकदेशानां त्रयेणाधस्तिर्यगूर्ध्वरूपेणाकर्णो व्याप्तः, वदन्ति हि 'अधोलीक:, तिर्यग्लोकः, ऊर्ध्वलोकः' इति । तत्र लोके सप्तसंख्या भुवः पृथिव्यो रत्नप्रभाशर्कराप्रभा- वालुकाप्रभा - पङ्कप्रभा धूमप्रभा-तमः प्रभा महातमः प्रभा यथार्थाभिधानाः, अनादिकालप्रसिद्धाऽनन्वर्थसंज्ञाश्च, तद्यथाघर्मा, वंशा, शैला, अञ्जना, अरिष्टा, माघव्या, माघवी च । ततश्च प्रत्येकं रत्नप्रभाया अधोऽधः पृथुतराः । तासु विंशत्, पञ्चविंशतिः, पञ्चदश, दश, त्रीण्येकं पञ्चोनं नरकावासशतसहस्त्रं, पञ्चैव नारकावासा यथाक्रमम् । ताच वेष्टिता: परिवृता अधः पार्श्वतश्च । कैः १ । घनो निबिडो नं तु द्रवो यो ऽसावम्भोधिः, महांश्चासौ वातश्च महावातो घनवातः. तनुश्वासौ वातश्च तनुवातः, तैः । किं विशिष्टैः ? | महाबलैः पृथ्वोधारणसमर्थेः । तत्र सर्वासां पृथिवीनामधी घनोदधयः मध्यीधे विंशतियोजन सहस्राणि, महावाताः उत्सेधे घनोदधितोऽसंख्यानि योजन
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy