SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ___७६५ चतुर्थः प्रकाशः। विनेन्द्रियजयं नैव कषायाओतुमीश्वरः । हन्यते हैमनं जाह्यं न विना ज्वलितानलम् ॥२४॥ समकालसंभविनोरपि कषायजयेन्द्रियजययोः प्रदीपप्रकाशयोरिवास्ति कार्यकारणभावः ; अत उक्तम्-इन्द्रियजयं विना न कषायजयः। हन्यते इत्यादिना दृष्टान्तः। हैमनजायसदृशाः कषायाः, ज्वलितानलप्रायश्चेन्द्रियजयः। हेमन्ते भवं हैमनम्, हेमन्ताद वा तन्नु च ॥६॥३॥४१॥ इत्यनेनाणि तलोपे वृक्षो च सिद्धम् ॥ २४ ॥ इन्द्रियजयः कषायजयहेतुत्वेनोक्तः, अजितानां विन्द्रियाणां न कषायजयहेतुत्वं प्रत्युतापायहेतुत्वमेवे त्याहअदान्तैरिन्द्रियहयैश्चलैरपथगामिभिः । आकृष्य नरकारण्ये जन्तुः सपदि नौयते ॥२५॥ इन्द्रियाख्येव हया अश्वा इन्द्रियहयास्तैश्चलैरेकनानवस्थायिभिः प्रक्कत्या, अदान्तैरजितैः सद्भिरपथगामिभिरुन्मार्गचारिभिराकष्य बलात्कारेण कष्ट्वा जन्तुः प्राणी, नरक एवारण्यं विविधभौतिहेतुत्वाद् नरकारण्यं तस्मिन् सपदि तत्क्षणाद नीयते । यथाऽदान्तो हयोऽपथगामित्वेन स्वमारोहकमरण्ये नयति तथैवाजिते. रिन्द्रियैर्जन्तुर्विविधापायबहुले नरके नीयत इत्यर्थः ॥२५॥
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy