SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ... चतुर्थः प्रकामः। ८५१ अथ संवरभावनामाह सर्वेषामाश्रवाणां तु निरोधः संवरः स्मृतः । स पुनर्भिद्यते वेधा द्रव्यभावविभेदतः ॥ ७६ ॥ सर्वेषां पूर्वोत्तानामात्रवाणां निरुध्यन्तेऽनेनेति निरोधः संवर उक्त: संवियतेऽनेनेति कत्वा। स चायोगिकेवलिनामेव । इदं च सर्वसंवरस्य स्वरूपम् । एकहिवाद्यास्रवनिरोधस्त सामाद देशसंवरः। स चायोगिकेवलिनः प्राग्गुणस्थानकेषु'। सर्वसंवरो . . देशसंवरच प्रत्येक द्रव्यभावभेदेन विविधः ॥.७८ ॥.. हैविध्धमेवाह यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंवरः ॥ ८० ॥ कर्मपुङ्गलानामाववहारेणादानं प्रवेशनं तस्य यन्छियतेऽनेनेति छेदः । स द्रव्याणां संवरो व्यसंवरः । भावसंवरत संसारकारणभूतायाः क्रियाया आत्मव्यापाररूपायास्वाग इति ॥८॥ इदानीं कषाया विषया योगा इत्यादिनाऽभिहितानामएभकर्महेतूनां प्रतिपक्षभूतानुपायान् स्तौति येन येन छुपायेन रुध्यते यो य आश्रवः । तस्य तस्य निरोधाय स स योज्यो मनीषिभिः ॥८॥ सष्टः ॥ १॥
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy