SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ८२२ योगशास्त्रे विश्वं सचेतनमचेतनमप्यशेष मुत्पत्तिधर्मकमनित्य मुशन्ति सन्तः ॥२०॥५७॥५८॥५६॥ अनित्यताभावनामुपसंहरनुपदर्शयति - इत्यनित्यं जगहत्तं स्थिरचित्तः प्रतिक्षणम् । तृष्णाकृष्णाहिमन्त्राय निर्ममत्वाय चिन्तयेत्॥६॥ इति पूर्वोक्तप्रकारेण जगवृत्तं जगत्स्वरूपनित्यं प्रतिक्षणं चिन्तयेदवधारयेत्, स्थिरचित्तो निश्चलचित्तः सन् । किमर्थम् ? निर्ममत्वाय-अनित्यत्वादिभावनासाध्यवीतरागत्वनिमित्तम्। किं विशिष्टाय ?। तृष्णाकृष्णाहिमन्त्राय-तृष्णा रागः सैव कृष्णाहिस्तस्था मन्त्राय मन्त्र स्वरूपाय। अहिशब्दः स्त्रीलिङ्गोऽप्यस्तीति नोपमानोपमेययोभित्रलिङ्गत्वम् । अनित्यता ॥ ६ ॥ - अथाशरणभावनामुपदिशति -- इन्द्रोपन्द्रादयोऽप्येते यन्मृत्योर्यान्ति गोचरम् । अहो ! तदन्तकातङ्के कः शरण्यः शरीरिणाम् ? ॥६१॥ इन्द्रः सुरनाथः, उपेन्द्रो वासुदेवस्तावादी येषां सुरमनुष्यादीनां, चक्रवर्तिपरिहारेणोपेन्द्रग्रहणं लोके मृत्युकाले भरणत्वोपहासपरम्, तेऽपि यद् यस्माद् मृत्योर्गोचरं वशं यान्ति ; अहो इति विस्मये, तत् तस्मादन्तकात मृत्यभये उपस्थिते कः शरण्यः शरणे साधुः शरीरिणां जन्तूनाम् ?–कोऽपि नास्तीत्यर्थः ॥ ६१॥
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy