SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Coo योगशा विषयद्दारेणैवेन्द्रियाणां दोषजनकत्वमिति पञ्चत्वाय मरणाय । - कथं हि युगपत् दोषदर्शनम्, तद् दर्शनार्थम् । एकैको विषयो गजादोनां यस्तु पुमान् सर्वषु विषयेष्वासक्तस्तं प्रत्याह पञ्चापि विषया: मेविताः पञ्चत्वाय भवन्त्येवेति । यदाह - न भवन्ति ? - -अपि तु पञ्चसु सक्ताः पञ्च विनष्टा यत्त्राग्टहोतपरमार्थाः । एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः ॥ १ ॥ ३३ ॥ इन्द्रियदोषानभिधाय तज्जयोपदेशमाह - तदिन्द्रियजयं कुर्याद् मन:शुधा महामतिः । यां विना यमनियमैः कायक्लेशो वृथा नृणाम् ॥३४॥ यस्मादेवंविधानर्थसार्थसमर्थकानीन्द्रियाणि तत् तस्मादिन्द्रियाणां भावेन्द्रियाणां जयं कुर्यात् । हिविधानि होन्द्रियाणि, द्रव्येन्द्रियाणि भावेन्द्रियाणि च । तत्र द्रव्येन्द्रियाणि स्पर्शनेन्द्रियायाकारपरिणतानि पुगलद्रव्याणि भावेन्द्रियाणि स्पर्शादिष्वभिलाषोपायरूपाणि तेषां जयो लील्यपरिहारेणावस्थानम् । अत्रान्तरश्लोकाः— अनिर्जितेन्द्रियग्रामो यतो दुःखैः प्रबाध्यतं । तस्माज्जयेदिन्द्रियाणि सर्वदुःखविमुक्तये ॥ १ ॥ न चेन्द्रियाणां विजयः सर्वथैवाप्रवर्त्तनम् । रागद्वेषविमुक्त्वा तु प्रवृत्तिरपि तज्जयः ॥ २॥
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy