SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे दोनारग्रन्थिना तेनोत्मर्पि हङ्गन्धिनेव सः । दशामासादयामास मरणादपि दुस्म हाम् ॥ ४१ ॥ विप्रतारयितुं लोक सायमन क्षिपत्यसौ । द्रव्यं प्रातः पुनर्गृह्णातीत्यूचे सचिवो नृपम् ॥ ४२ ॥ साधु ज्ञातमिदं छद्मेत्यालपन् मन्त्रिपुङ्गवम् । विस्मयस्मेरनयन: स्ववेश्मागाद् महीपतिः ॥ ४३ ॥ अमर्षणो वररुचिः प्रतिकारं विचिन्तयन् । ग्टहखरूपं सचिवस्यापृच्छच्चेटिकादिकम् ॥ ४४ ॥ तस्याथ कथयामास काचित् सचिवचेव्यदः । भूपति: श्रीयकोहाहे भोक्ष्यते मन्त्रिवेश्मनि ॥ ४५ ॥ सज्जाते चात्र शस्त्रादि दातुं नन्दाय मन्त्रिणा। शस्त्रप्रियाणां राज्ञां हि शस्त्रमाद्यमुपायनम् ॥ ४६ ॥ समासाद्य छलनम्तच्छलं वररुचिस्ततः । चग कादि प्रदायेति डिम्भरूपाण्यपाठयत् ॥ ४७ ॥ न वेत्ति राजा यदसौ शकटाल: करिष्यति । व्यापाद्य नन्दं तद्राज्ये श्रीयकं स्थापयिष्यति ॥ ४८ ॥ स्थाने स्थाने च पठतो डिम्भानेवं दिने दिने । जनश्रुत्या तदोषोदिति चाचिन्तयट् नृपः ॥ ४८ ॥ 'बालका यच्च भाषन्ते भाषन्ते यच्च योषितः । औत्पातिकी च या भाषा मा भवत्यन्यथा नहि ॥ ५० ॥ तत्प्रत्ययाथें राज्ञाथ प्रेषितो मन्त्रिवेश्मनि । . पुरुषः सर्वमागत्य यथादृष्टं व्यजिज्ञपत् ॥ ५१ ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy