SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ६४८ योगशास्त्रे मुक्ति स्थान प्राप्ताः परम्परागताः तेभ्यः । एते च कश्चिदनियतदेशा अभ्युपगम्यन्ते, यत्र क्लेशक्षयस्तत्र विज्ञानमवतिष्ठते । बाधा च सर्वथाऽस्येह तदभावान्न जातुचित् ॥ १ ॥ इति वचनात्, एतनिरासायाह लोकाग्रमुपगतेभ्यः लोकाग्रमौषप्राग्भाराख्यायाः पृथिव्या उपरिक्षेत्रं तदुप सामीप्येन तदपराभित्रदेशतया निःशेषकर्मक्षयपूर्वकं गताः प्राप्ताः । उक्तं च 'जस्थ य एगो सिद्धो तत्थ य अणंता भवक्खयविमुक्का । अस्मोसमणाबाहं चिट्ठति सुही सुहं पत्ता ॥ १ ॥ तेभ्यः । ननु क्षीणकर्मणो जीवस्य कथं लोकाग्रं यावहतिः ?।. उच्यते-पूर्वप्रयोगादियोगात् । यदाह पूर्वप्रयोगसिद्धेर्बन्धच्छेदादसङ्गभावाच्च । गतिपरिणामाच्च तथा सिद्धस्योध्वं गतिः सिद्धा ॥ १ ॥ ननु सिद्धिक्षेत्रात्परतोऽधस्तिर्यग्वा कस्मान्न गच्छन्ति ?,' अनाऽप्युक्तम् - नाऽधो गौरवविगमाद सङ्गभावाच्च गच्छति विमुक्तः । लोकान्तादपि न परं प्लवक इवोपग्रहाभावात् ॥ १ ॥ (१) यता चैकः सिद्धस्तत्र चानन्ना भव क्षय विमुक्ताः । . अन्योन्यमनाबाधं तिष्ठन्ति सुखिनः सुखं प्राप्ता. ॥१॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy