SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ७८५ __ चतुर्थः प्रकाशः। - अन्तः स्पृशेद यत्र यत्रौहत्यं जात्यादिगोचरम् । तत्र तस्य प्रतीकारहेतोर्मार्दवमाश्रयेत् ॥ २ ॥ सर्वत्र मार्दवं कुर्यात् पूज्येषु तु विशेषतः । येन पापाद् विमुच्येत पूज्यपूजाव्यतिक्रमात् ॥ ३ ॥ मानाद बाहुबलिर्बद्धो लताभिरिव पाप्मभिः । मार्दवात् तत्क्षणं मुक्तः सद्यः संजातकेवलः ॥ ४ ॥ चक्रवर्ती त्यक्तसङ्गो वैरिणामपि वेश्मसु । भिक्षायै यात्यहो ! मानच्छेदायामृदु मार्दवम् ॥ ५ ॥ चक्रवर्त्यपि तत्कालदीक्षितो रङ्कसाधये । नमस्यति त्यक्तमानविरं च वरिवस्यति ॥ ६ ॥ एवं च मानविषयं परिमृश्य दोषं ज्ञात्वा च मार्दवनिषेवणजे गुणोघम् । मानं विहाय यतिधर्मविशेषरूपं सद्यः समाश्रयत मार्दवमेकतानाः ! ॥७॥१४॥ इदानौं मायाकषायस्वरूपमाह: असूनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ॥१५॥ असूनृतस्यानृतस्य जननीव जननी, मायामन्तरेण प्रायेणासूनृतस्याभावात्, 'माया' इति वक्ष्यमाणं संबध्यते, माया वञ्चनात्मकः परिणामः, तथा, परशुः कुठार: शीलं मुखभावता तदेव
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy