SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ हतीयः प्रकाश: । ततः सौधर्मकल्पेऽसौ विमाने चारुणप्रभे। भविष्यत्यमरवरश्चतुष्यल्योपमस्थितिः ॥ ३० ॥ सततं जागरूकस्य हादशव्रतपालने । प्रानन्दस्य ततोऽतीयुर्हायनानि चतुर्दश ॥ ३१ ॥ . निशान्ते चिन्तयामास सोऽन्येद्युरिति शुद्धधीः । आश्रयः श्रीमतामस्मि भूयसामिह पत्तने ॥ ३२ ॥ विक्षिप्तश्चिन्तया तेषां मा स्म स्खलमहं क्वचित् । अङ्गीकृतेऽस्मिन् सर्वज्ञप्रज्ञप्ते धर्मकर्मणि ॥ ३३ ॥ ततो मनसिलत्यैवं प्रातरुत्थाय कृत्य वित् । कोल्लाके पोषधशालां सुविशालामचीकरत् ॥ ३४ ॥ निमन्वा मित्रसंबन्धिबान्धवादीनसावथ। .. भोजयित्वाऽखिलं ज्येष्ठे भारं पुत्रेऽध्यरोपयत् ॥ ३५ ॥ . ततश्च पुत्रमित्रादीन् सर्वानप्यनुमान्य सः । ययौ पौषधशालायां धर्मकर्मविधिमया ॥ ३६ ॥ तस्थौ तत्र महात्मासौ कर्मेव क्शयन् वपुः । धर्म भगवदादिष्टमात्मानमिव पालयन् ॥ ३७॥ नि:श्रेणिकल्पां स्वर्गापवर्गसौधाधिरोहणे । श्रावकप्रतिमापङ्क्तिमारोह क्रमेण सः ॥ ३८ ॥ तपसा तेन तीव्रण शुष्कासपिशिताङ्गकः । चर्मवेष्टितयध्याभो महासत्त्वो बभूव स: ॥ ३८ ॥ धर्मजागर्यया जाग्रनिशीथसमयेऽन्यदा। प्रभग्नस्तपसानन्दश्चेतस्येवमचिन्तयत् ॥ ४० ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy