SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रकाशः । ७५१ ___एते च मनोरथाः क्रमेणोत्तरोत्तरप्रकर्षवन्तः, तथाहि-प्रथमे श्लोके जिनधर्मानुरागमनोरथः, हितीये तु यतिधर्मपरिग्रहमनोरथः, तृतीये तु यतिचर्याकाष्ठाधिरोहणमनोरथः, चतुर्थे तु कायोत्सर्गादिमनोरथः, पञ्चमे तु गिरि-गुहाद्यवस्थितमुनिचर्यामनोरथः, षष्ठे तु परमसामायिकपरिपाकमनोरथः ॥१४६॥ इदानीमुपसंहरतिअधिरोढुं गुणश्रेणिं निःश्रेणी मुक्तिवश्मनः । परानन्दलताकन्दान् कुर्यादिति मनोरथान् ॥१४॥ अधिरोढुमारोढुं गुणश्रेणिमुत्तरोत्तरगुणस्था'नरूपाम्, किंविशिष्टाम् ? निःश्रेणीमिव निःश्रेणीम्, कस्य ? मुक्तिलक्षणस्य वेश्मनो मन्दिरस्य, कुर्याद् विदध्यात्, इति श्लोकषट्केनोक्तान मनोरथान्, किंविशिष्टान् ? परानन्दलताकन्दान् परश्वासावानन्दश्च स एव लता तस्याः कन्दान् कन्दभूतान् । यथा हि कन्दालता प्रभवति तथैतेभ्योऽपि मनोरथेभ्यः परो य आनन्दः परमसामायिकरूपः स प्रभवति । सप्तभिः कुलकम् ॥१४७॥ अथोपसंहरतिइत्याहोराविकों चर्यामप्रमत्तः समाचरन् । यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति ॥१४८॥ इति पूर्वोक्तक्रमेण, अहोरात्रे भवामाहोरात्रिकी चयां समाचाररूपामप्रमत्तः प्रमादरहित: समाचरन् सम्यक् कुर्वन्, उक्त (१) ग थ -नक-।
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy