SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ हतीयः प्रकाशः । प्राप्नुयात् ?, सर्वविरतिप्रतिपत्तिकलशारोपणफलो हि श्रावकधर्मप्रासाद इति ॥ १२१ ॥ इदानीं महाशावक स्य दिनचर्यामाहब्राह्म मुहूर्त उत्तिष्ठेत् परमेष्ठिस्तुतिं पठन् । किंधर्मा किंकुलश्चास्मि किंव्रतोऽस्मीति च स्मरन्॥१२२॥ पञ्चदशमुहूर्ता रजनी, तस्यां चतुर्दशी मुहूर्तो ब्राह्मस्तस्मिनुत्तिष्ठेत् निद्रा जह्यात् ; परमे तिष्ठन्तीति परमेष्ठिन: पञ्चाईदादयस्तेषां स्तुतिं नमो अरिहन्ताणमित्यादिरूपामात्यन्तिकतहहुमानकार्यभूतां परममङ्गलार्थ वा पठनव्यक्तवर्णामिति शेषः । . यदाह --- __'परमेट्ठिचिन्तणं माणमम्मि सेज्जागएगा कायव । सुत्ता विणयपवित्ती निवारिया होइ एवं तु ॥ १ ॥ अन्ये त्वविशेषेणैव नमस्कारपाठमाहुन सा काचिदवस्था यस्यां पञ्चनमस्कारस्थानधिकार इति मन्वाना: । न केवलं पठन्, को धर्मो यस्याऽमौ किंधर्मा, किंकुलं यस्याऽसो किंकुलः, किं व्रतं यस्याऽसौ किंवतोऽस्मोत्यहमिति च स्मरविदं भावत: स्मरणम् । उपलक्षणत्वात्के गुरवो ममेति व्यतः, कुत्र ग्रामे नगरादौ वा वसामोति क्षेत्रतः, कः कालः प्रभातादिरिति कालतश्चेत्यादि स्मरन्, धमेस्य जैनादेः, कुलस्येच्क्षाक्कादेः, व्रतानामणुव्रतादीनां स्मरणे तहिरुहपरिहारस्येषत्करत्वात् ॥ १२२ ॥ (१) परमेष्ठिचिन्तनं मानसे शय्यागतेन कर्तव्यम्। सुत्ता विनयप्रवत्तिनिवारिता भवति एवं तु ॥ १ ॥
SR No.002395
Book TitleYogshastra Part 04
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1916
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy