SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे तन्निराकरणार्थमाह - सिवम यलमरु अमांत मक्खयमव्वाबाहमपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं - शिवं सर्वोपद्रवरहितत्वात्, अचलं स्वाभाविकप्रायोगिक चलनक्रियारहितत्वात्, अरुजं व्याधिवेदनारहितं तन्निबन्धनयोः शरीरमनसोरभावात्, अनन्तमनन्तज्ञानविषयत्वयुक्तत्वात्, अक्षयं विनाशकारणाभावात्, अव्याबाधम कर्मत्वात्, अपुनरावृत्तिः, न पुनरावृत्तिः संसारेऽवतारो यस्मात् सिद्धिगतिनामधेयं सिद्धयन्ति निष्ठितार्था भवन्त्यस्यां जन्तव इति सिद्धिर्लोकान्त क्षेत्रलक्षणा सैव गम्यमानत्वागतिः, सिद्धिअतिरेव नामधेयं यस्य तत्तथा, स्थानं तिष्ठन्त्यस्मिन्निति स्थानं व्यवहारतः सिद्धिक्षेत्रम् । यदाहु: - 'इह बुन्दिं चद्रत्ता णं तत्थगंतूण सिज्झइ इति । निश्श्रयतस्तु स्वस्वरूपमेव सर्वे भावा आत्मभावे तिष्ठन्तीति वचनात्, विशेषणानि च निरुपचरितत्वेन यद्यपि मुक्तात्मन्येव भूयसा सम्भवन्ति तथापि स्थानस्था निनोरभेदोपचारादेवं व्यपदेशः, तदेवंविधं स्थानं सम्प्राप्ताः सम्यगशेषकर्मविच्युत्या स्वरूपगमनेन परिणामान्तरापत्त्या प्राप्तास्तेभ्यः, न हि विभूनामेवंविधप्राप्तिसम्भवः, सर्वगतत्वे सति सदैकस्वभावत्वात्, नित्यानां चैकरूपतया अवस्थानं तद्भावात्र्ययस्य नित्यत्वात् । श्रतः क्षेत्रतोसर्वगतपरिणामिनामेवैवं प्राप्तिः सम्भवति, अत एव कायप्रमाणमा मेति सुस्थितं वचनं तेभ्यो नम इति क्रियायोगः एवंभूता एव प्रेक्षावतां नमस्कारार्हा आद्यन्तसङ्गतश्च नमस्कारो ६२८ (१) इह शरीरं त्यक्वा तत्र गत्वा सिध्यति ।
SR No.002395
Book TitleYogshastra Part 04
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1916
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy