SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ६१० . योगशास्त्रे रभग्नोऽविराधितो मे कायोत्सर्गो भूयादिति सम्बन्धः ; आदिशब्दादन्यैरपि यदा अग्ने विद्युतो वा ज्योतिः स्पृशति तदा प्रावरणायोपधिग्रहणं कुर्वतो न कायोत्सर्गभङ्गः । ननु नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति येन तद्भङ्गो न भवति ? । उच्यते-नाऽत्र नमस्कारेण पारणमेवावशिष्ट कायोत्सर्गमानं क्रियते, किन्तु यो यत्परिमाण: कायोत्सर्ग उक्तस्तावन्तं कालं प्रतीक्ष्य तत अर्द्ध नमस्कारमपठित्वा पारयतो भङ्गोऽपरिसमाप्तेऽपि च पठतो भङ्ग एव, तस्माद्यो यत्परिमाणः कायोत्सर्गस्तस्मिन् पूर्ण एव नमो अरिहंताणमिति वक्तव्यम् । तथा मार्जारमूषिकादेः पुरतो गमनेऽग्रतः सरतोऽपि न भङ्गः। तथा चौरसंभ्रमे राज. संभ्रमे वा अस्थानेऽपि नमस्कारमुच्चारयतो न भङ्गः । तथा सर्पदष्टे आत्मनि परे वा साध्वादौ सहसा उच्चारयतो न भङ्गः । यदाहु: 'अगणि-उच्छिन्दिज्ज-बोहिअखोभाइ-दीहडको वो। आगारहिं न भम्गो उम्मग्गो एवमाईहिं ॥ १ ॥ आक्रियन्ते आग्रह्यन्ते इत्याकाराः कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकाविद्यमानैरपि भग्नः सर्वथा विनाशितः, न भग्नोभग्नः, विराधितो देशभग्नः, न विराधितोऽविराधितो भवेन्मम कायोत्सर्ग: । कियन्तं कालं यावदित्याह-जाव अरिहंताणं भगवंताणं नमोकारणं न पारमि यावदिति कालावधारणे, याव . (१) अग्न्यु- गोद्य-बोधिकक्षोभादि दीर्घदष्टो वा। बाकारन भग्न उत्सर्ग एवमादिभिः ॥ १॥ ..
SR No.002395
Book TitleYogshastra Part 04
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1916
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy