SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः । ४७१ दिव्यभोज्येषु सकलधातुवृंहकेषु सर्वेन्द्रियप्रीतिप्रदेषु क्षौरक्षरेयीकिलाटीकूर्चिकारसालादध्यादिषु मोदकमण्ड कमण्डिकाखाद्यकपर्पटिकातपूरादिषु इण्डे रिकापूरणवटकवटिकापर्पटादिषु इत्तुगुडखण्डशर्करादिषु द्राक्षासहकारकदलदाडिमनालिकेरनारङ्गखजूराक्षोटराजादनपनसादिषु च सत्स्वपि तान्यनादृत्य ये मूढा विस्रगन्धिजुगुप्साकरं शूकाप्रधानानां वान्तिकरं मांस भक्षयन्ति ते जीवितवृद्धिहेत्वमृतरसपरिहारेण जीवितान्तकरं हालाहलं विषभेदं भुञ्जते। बालोऽपि हि दृषत्परिहारण सुवर्णमेवादत्त इति बालादपि मांसभक्षिणो बालाः ॥ २८ ॥ भयन्तरेण मांसभक्षणदोषमाहन धर्मो निर्दयस्यास्ति पलादस्य कुतो दया । पललुब्धो न तद्देत्ति विद्याद्दोपदिशेन्नहि ॥ २६ ॥ निर्दयस्य कपारहितस्य, धर्मो नास्ति ; धर्मस्य दया मूलमिति ह्यामनन्ति । ततः प्रस्तुते किमायातमत आह-पलादस्य कुतो दया। पलादस्य मांसोपजीविनः, कुतो दया नैव दयेत्यर्थः ; भक्षकस्य बधकत्वेनोक्तत्वात् । वधकश्च कथं सदयो नाम इति पलादस्य निर्धमंतालक्षणो दोषः । ननु सचेतन: कथमात्मनि धर्माभावं सहेत । उच्यते । पललुब्धो न तहेत्ति मांसलोभन न तत्पूर्वार्धोक्तं जानाति । अथ कथञ्चिविद्याज्जानीयात्तहि स्वयं मांसलुब्धो मांसनिवृत्तिं कर्तुमशक्नुवन् सर्वेऽपि मम सदृशा भवन्विति परेभ्यो मांसनिषेधं नोपदिशेदाजिणकवत्। श्रूयते हि कश्चिदा
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy