SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रकाशः । हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा। क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ॥२०॥ हन्ता शस्त्रादिना प्राणिनां प्राणापहारकः, पलस्य विक्रेता यो मांस विक्रीणीते। पलस्येत्युत्तरेष्वपि पदेषु सम्बन्धनीयम् । संस्कर्ता यो मांसं संस्करोति, भक्षक: खादकः, क्रेता यो मांसं क्रोणाति, अनुमन्ता य: प्राणिहिंसया मांसमुत्पाद्यमानमनुमोदते, दाता यो मांसमतिथ्यादिभ्यो ददाति ; एते साक्षात्यारम्पद्येण वा घातका एव प्राणिप्राणापहारका एव, यन्मनुरिति संवादार्थम् ॥ २० ॥ मानवमेवोतं दर्शयतिअनुमन्ता विशसिता निहन्ता क्रयविक्रयो। संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥२१॥ अनुमन्ता अनुमोदकः, विशसिता हतस्याङ्गविभागकरः, निहन्ता व्यापादकः, क्रयविक्रयो क्रयविक्रयौ विद्येते यस्य स तथा, क्रेता विक्रेता चेत्यर्थः ; संस्कर्ता मांसपाचकः, उपहर्ता परिवेष्टा, खादको भक्षक: ; एते सर्वे घातकाः ॥ २१ ॥ ___ द्वितीयमपि मानवं श्लोकमाहनाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ २२ ॥ यावत्प्राणिनो न हतास्तावन्मांसं नोत्पद्यते, हिंसा चातिशयेन दुःखावहा, तस्मान्मांसं विवर्जयेत्, उत्पद्यत इति मांसस्य हिंसा
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy