SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ हितीयः प्रकाशः । ६८३ सं ज्ञापयाधुनापीति तयोतः कपिलोऽवदत् । असावृषभदासस्य श्रेष्ठिनस्तनयः सुधीः ॥ ४८ ॥ एष रूपल पञ्चेषुः कान्त्येन्दुस्तेजसा रविः । माम्भीर्येण महाम्भोधिः क्षमया मुनिसत्तमः ॥ ४८ ॥ दानैकचिन्तामाणिक्यं गुणमाणिक्यरोहणः । प्रियालापसुधाकुण्डं वसुधामुखमण्डनम् ॥ ५० ॥ खलुवा खलु यहाऽस्य निखिलानपरान् गुणान् । गुणचूडामणे : शीलं यस्य न खलति कचित् ॥ ५९॥ कपिला कपिलाच्छ्रुत्वा तगुणान् कामविह्वला। चक्रेऽनुराग, चपलाः प्रायेण हिजयोषितः ॥ ५२ ॥ सुदर्शनाभिसरणोपायं प्रतिदिनं ततः । कपिला चिन्तयामास परं ब्रह्मेव योगिनी ॥ ५३ ॥ अपरेद्युनूपादेशाद्वामान्तरमुपयुषि । कपिले, कपिलेयाय सुदर्शननिकेतनम् ॥ ५४ ॥ सा मायाविन्यवोचत्तमद्य वत्सुहृदो महत् । शरीरापाटवं तेन हेतुना नाययाविह ॥ ५५॥ अपाटवं त्वहिरहाहपुषो हिगुणं यतः । अतस्त्वामहमाह्वातुं प्रेषिता सुहृदा तव ॥ ५६ ॥ नैतज्ज्ञातं मयेत्युक्त्वा तदैवागास तहम् । नान्यमायां हि शन्ते सन्तः स्वयममायिनः ॥ ५७ ॥ स तत्र प्रविशत्रूचे क नाम सुहृदस्ति मे । सोवाच गम्यतामग्रे शयानः सुहृदस्ति ते ॥ ५८ ॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy