SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः । ४१७ तथा'कंचणमणिसोवाणं थंभसहस्मोसियं सुवसतलं । जो कारिज्न जिणहरं तत्रोवि तवसंजमो 'अहिो * ॥ १॥ . व्यतिरेकमाह दोषास्तु, दोषाः पुनः पर्वतस्थूला अतिमहान्तो वक्ष्यमाणाः परिग्रहे सति प्रादुष्षन्ति प्रादुर्भवन्ति ॥ १०८ ॥ दोषास्तु पर्वतस्थूला इति यदुक्तं तत् प्रपञ्चयति. सङ्गाद्भवन्त्यसन्तोऽपि रागद्देषादयो दिषः । मुनरपि चलेच्चेतो यत्तेनान्दोलितात्मनः ॥१०॥ सङ्गात्परिग्रहावेतोर्भवन्ति प्रादुर्भवन्ति असन्तोऽपि उदयावस्थामप्राप्ता अपि रागद्देषप्रभृतयः शत्रवः । सङ्गवतो हि तत्रिबन्धनो रागः प्रादुर्भवति। सङ्गप्रतिपन्थिषु च देषः, एवं मोहभयादयो वधबन्धादयो नरकपातादयश्च द्रष्टव्याः। तदिदं पर्वतस्थूलत्वं दोषाणाम् । कथमसन्तोऽपि रागादयो भवन्तीति, उच्यते, (१) काञ्चनमणिसोपानं स्तम्भसहस्रोच्छ्रितं सुवर्णतलम् । यः कारयेज्जिनग्टहं ततोऽपि तपःसंयमोऽधिकः ॥ १ ॥ (२) क छ ड ढ अणंतगुणो। * संबोधसत्तरित्तौ तु कंचणमणिसोवाणे थम्भसहस्मृसिए सवचतले । जो कारबेज्ज जिणहरे तोवि तवसंजमो अशंतगुणो त्ति ॥ एवं पाठो दृश्यते ।
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy