SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ५८५ . टतीयः प्रकाशः । ननु जिनबिम्बानां पूजादिकरण न कश्चिदुपयोगः, न हि पूजादिभिस्तानि टप्यन्ति तुष्यन्ति वा, न चाटप्ततुष्टाभ्यो देवताभ्यः फलमाप्यते । नैवम् ! चिन्तामण्यादिभ्य इवाऽटप्ततुष्टेभ्योऽपि फलप्राप्ताविरोधात् । यदुक्तं वीतरागस्तोत्रेऽस्माभिः अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् ? । . चिन्तामण्यादयः किं न फलन्त्यपि विवेतनाः ॥ १ ॥ तथा - 'उवगाराभावम्मि वि पुज्जाणं पूयगस्म उवगारो। मन्ताइसरणजलणादिसेवणे जह तहहं पि ॥ १ ॥ एष तावत् स्वकारितानां बिम्बानां पूजादिविधिरुक्तः, अन्य कारितानामपि। अकारितानां च शाखतप्रतिमानां यथार्ह पूजनवर्धनादिविधिरनुष्ठेयः । त्रिविधा हि जिनप्रतिमा:-भक्तिकारिता: स्वयं परेण वा चैत्येषु कारिता:, या इदानीमपि मनुष्यादिभिर्विधाप्यन्ते ; मङ्गल्यकारिता या गृहेषु हारपत्रेषु मङ्गलाय कार्यन्ते, शाश्वत्यस्तु अकारिता एव अधस्तिर्यगूर्ख लोकावस्थितेषु जिनभवनेषु वर्तन्त इति । न हि लोकत्रयेऽपि तत्स्थानमस्ति यन्त्र पारमेखरीभिः प्रतिमाभि: पविलितमिति। जिनप्रतिमानां च वीतरागस्वरूपाध्यारोपण पूजादिविधिरुचित इति। जिनभवनक्षेत्रे स्वधनवपनं यथा-शल्यादिरहितभूमौ स्वयंसिद्धस्योपलकाष्ठादि (१) उपकाराभावेऽपि पूज्यानां पूजकस्योपकारः। मन्त्रादिकारणज्वलनादिसेवने यथा तथेहाापि ॥ १ ॥ .. ७४
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy