SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ५७४ योगशास्त्रे भोगादिना क्रियमाणा अतिचाराः, उपेत्य क्रियमाणास्तु भङ्गाएवेति ॥ ११४ ॥ . अथानर्थदण्डविरतिव्रतस्याऽतिचारानाहसंयुक्ताधिकरणत्वमुपभोगातिरिक्तता। मौखर्यमथ कौत्कुच्यं कन्दर्पोऽनर्थदण्डगाः ॥११५॥ अनर्थदण्डगा इत्यनर्थदण्ड विरतिव्रतगामिन एते पञ्चातिचाराः । तद्यथा-अधिक्रियते दुर्गतावात्माऽनेनेत्यधिकरणमुदूखलादिसंयुक्तम्, उदूखलेन मुशलं, हलेन फाल:, शकटेन युगं, धनुषा शराः, एवमेकमधिकरणमधिकरणान्तरेण संयुक्तं संयुक्ताऽधिकरणं तस्य भाषस्तत्त्वम् । इह च श्रावकेण संयुक्तमधिकरणं न धारणीयम् । तथा सति हि यः कश्चित् संयुक्तमधिकरणमाददीत, वियुक्ताधिकरणतायां तु सुखेन परः प्रतिषेधयितुं शक्यते। एतच्च हिंस्रप्रदानरूपस्यानथदण्ड स्यातिचारः १ । तथा उपभोगस्योपलक्षणत्वाद्भोगस्य चोक्तनिर्वचनस्य यदतिरिक्तत्वमतिरेक: सा उपभोगातिरिक्तता। अयं प्रमादाचरितस्याऽतिचारः । इह च नानपानभोजनचन्दनकुश्मकस्तूरिकावस्त्राभरणादीनामतिरिक्तानामारम्भोऽनर्थदण्डः । अत्राऽपि वृद्धसम्प्रदायः-अतिरितानि बहूनि तेलामलकानि यदि ग्रहाति, तदा तल्लोल्येन बहवः स्नानाथं तडागादौ व्रजन्ति, ततश्च पूतरकाप्कायादिवधोऽधिकः स्यात् ; न चैवं कल्पते, ततः को विधिः ? तत्र सानेच्छुना तावगृह एव सातव्यम्, तदभावे तु तैलामलकैर्गृह एव शिरो घर्षयित्वा तानि सर्वाणि शाटयित्वा
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy