SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ५६६ हतीय: प्रकाशः । ...... अथ स्फोटजीविकामाह- .. . . .. सरःकूपादिखननशिलाकुट्टनकर्मभिः । पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका ॥१०६॥ सरसः कूपस्य आदिग्रहणाद वापोदीर्घिकाः खननमोड कर्म, हलादिना वा क्षेत्रादेर्भूविदारणं ; शिलाकुट्टनकर्म पाषाणघटनकर्म ; एतैः पृथिव्याः पृथिवीकायस्थ य आरम्भ उपमर्द स्तस्थ सम्भूतं सम्भवो येभ्यस्तैः पृथिव्यारम्भसम्भूतैः ; उपलक्षणं चैतद् भूमिखनने वनस्पतित्रसादिजन्तुघातानाम् । एभिर्जीवनं स्फोटजीविका ; स्फोटः पृथिव्या विदारणं तेन जीविका स्फोटजीविका ॥ १०६ ॥ अथ दन्तवाणिज्यमाहदन्तकेशनखास्थित्वग्रोम्णो ग्रहणमाकरे । चसाङ्गस्य वणिज्यार्थं दन्तवाणिज्यमुच्यते ॥१०॥ दन्ता हस्तिनां उपलक्षणत्वादन्येऽपि त्रसजीवावयवा दन्तग्रहणेन गृह्यन्ते । तदेवाह - केशाश्चमर्यादीनां, नखा घूकादीनां, अस्थौनि शङ्खादीना, त्वक् चित्रकादीनां, रोमाखि हंसादीनां, तेषां ग्रहणं मूल्यादिना स्वीकारः, रोम्ण इत्येकवचनं प्राण्यङ्गत्वात् । पाकरे तदुत्पत्तिस्थाने, त्रसाङ्गस्व वसजीवावयवस्य, वणिज्यार्थ वाणिज्यनिमित्तं ; प्राकरे हि दन्तादिग्रहणाथ पुलिन्दानां यदा द्रव्यं ददाति तदा तप्रतिक्रया) हस्त्यादिवधं ते. कुर्वन्ति, ७२
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy