SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रकाश:। - ५६५ तनमिति बुद्धा आहारः सन्मियाहारः व्रतसापेक्षत्वादतिचार इति तृतीयः ३ । अभिषवोऽनेकद्रव्यसंधाननिष्पन्नः सुरासौवीरकादिः, मांसप्रकारखण्डादिर्वा, सुरामध्वाद्यभिस्यन्दिकृष्यद्रव्योपयोगो वा, अयमपि सावद्याहारवर्जकस्यानाभोगातिक्रमादिनाऽतिचार इति चतुर्थः ४ । तथा दुष्पको मन्दपक्क: स चासावाहारश्च दुष्पक्काहारः, स चार्धखिन्नपृथुकतन्दुलयवगोधूमस्थूलमण्डक'कर्कटकफलादिरैहिकप्रत्यवायकारी यावता चांशन सचेतनस्तावता परलोकमप्युपहन्ति पृथुकादेर्दुष्पकतया सम्भवत्सचेतनावयवत्वात् पक्वत्वेनाचेतनइति भुञ्जानस्याऽतिचार इति पञ्चमः ५। केचित् त्वपक्काहारमप्यतिचारत्वेन वर्णयन्ति । अपक्कं चाग्न्यादिना यदसंस्कृतम् । एष च सचित्ताहारे प्रथमातिचारेऽन्तर्भवति। तुच्छौषधिभक्षणमपि केचिदतिचारमाहुः । तुच्छौषधयश्च मुहादिकोमलशिम्बीरूपास्ताश्च यदि सचित्तास्तदा सचित्तातिचार एवान्तर्भवन्ति, अथ अग्निपाकादिना अचित्तास्तहि को दोषः ? इति । एवं रात्रिभोजनमद्यादिनिवृत्तिष्वपि अनाभोगातिक्रमादिभिरतिचारा भावनीयाः । एते पञ्चातिचारा भोगाभोगपरिमाणगता बोजव्याः ॥ १८ ॥ अथ भोगोपभोगातिचारामुपसंहरन् भोगोपभोगव्रतस्य लक्षणान्तरं तहतांश्चातिंचारानुपदर्शयितुमाहअमी भोजनतस्त्याज्याः कर्मत: खरकर्म तु । तस्मिन् पञ्चदश मलान् कर्मादानानि संत्यजेत् ॥६६॥ (१) क-कटुकफल-1
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy