SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रकाशः। ५६३ ऽतिचारः १ । तथा ऊर्द्ध पर्वततरुशिखरादेः, अधो ग्रामभूमिगृहकूपादेः, तिर्यक् पूर्वादिदिक्षु, योऽसौ भागो नियमितः प्रदेशः, तस्य व्यतिक्रमः ; एते त्रयोऽतिचाराः । यत्सूत्रम् - 'उडदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे इति ॥ एते च अनाभोगातिक्रमादिभिरेवाऽतिचारा भवन्ति, अन्यथाप्रवृत्तौ तु भगा एव । यस्तु न करोमि न कारयामीति वा नियमं करोति, स विवक्षितक्षेत्रात् परतः स्वयं गमनत: परेण नयनानयनाभ्यां च दिक्प्रमाणातिक्रमं परिहरति, तदन्यस्य तु तथाविधप्रत्याख्यानाऽभावात् परेण नयनानयनयोन दोषः २ । ३ । ४ । तथा क्षेत्रस्य पूर्वादिदेशस्य दिग्व्रतविषयस्य हुस्वस्य सतः, वृद्धिवर्धनं पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपण दीर्धीकरणं, क्षेत्रहहिरिति पञ्चमोऽतिचारः। तथाहि--केनापि पूर्वापरदिशोः प्रत्येक योजनशतं गमनपरिमाणं कृतं, स चोत्पत्रप्रयोजन एकस्यां दिशि नवतिं योजनानि व्यवस्थाप्य अन्यस्यां दिशि तु दशोत्तरयोजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतवयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्र वर्धयतो व्रतसापेक्षत्वादतिचार इति। यदि वाऽनाभोगात् क्षेत्रपरिमाणमतिक्रान्तो भवति तदा निवर्तितव्यं, ज्ञाते वा न (१) अर्द्धदिक प्रमाणातिक्रमोऽधोदिकप्रमाणातिक्रमस्तिर्यदिक प्रमाणाति क्रमः॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy