SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रकाशः । पञ्चभिर्हेतुभिः स्वबुद्ध्या व्रतभङ्गमकुर्वत एवातिचारो भवति ; बन्धनादयश यथासंख्येन धनधान्यादीनां परिग्रहविषयाणां सम्बध्यन्ते। तत्र धनधान्यस्य बन्धनात् संख्याऽतिक्रमो यथाकतधनधान्यपरिमाणस्य कोऽपि लभ्यमन्यहा धनं धान्यं वा ददाति, तच्च व्रतभङ्गभयाच्चतुर्मास्यादिपरतो गृहगतधनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनात्, यन्त्रणात्, रज्ज्वादिसंयमनात्, सत्यशारदानादिरूपाहा खोकृत्य तद् गृहएव तत् स्थापयतोऽतिचार: १। कुप्यस्य भावतः संख्याऽतिक्रमो यथा-कुप्यस्य या संख्या कता तस्याः कथञ्चिद् द्विगुणवे सति व्रतभङ्गभयाद् भावतो हयोईयोर्मीलनेन एकीकरणरूपात् पर्यायान्तरात् स्वाभाविकसंख्याबाधनात् संख्यामात्रपूरणाञ्चातिचारः । अथवा भावतोऽभिप्रायादर्थित्वलक्षणाहिवक्षितकालावधेः परतो ग्रहीथामि अतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयतोऽतिचारः २ । तथा गोमहिषीघडवादेविवक्षितसंवत्सराद्यवधिमध्य एव प्रसवे अधिकगवादिभावाद् व्रतभङ्गः स्यादिति तद्भयात् कियत्यपि काले गते गर्भतो गर्भग्रहणादर्भस्थगवादिभावेन बहिस्तदभावेन कथञ्चिद्वतभङ्गाद् व्रतिनोऽतिचारः ३ । तथा क्षेत्रवास्तुनो योजनात् क्षेत्रवास्त्वन्तरमौलनाहीतसंख्यायाअतिक्रमोऽतिचारः । तथाहि -किलैकमेव क्षेत्र वास्तु चेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रवास्तुप्रत्यासन्न तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृत्तिभित्त्याद्यपनयनेन तत्तत्र योजयतो व्रतसापेक्षत्वात् कथञ्चिहिरति
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy