SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ५५८ टतीयः प्रकाश: । चारिणं वा स्वपतिमतिक्रमादिनाऽभिसरन्त्या अतिचारः । शेषास्त्रयः स्त्रियाः पूर्ववत् ॥ ८४ ॥ अथ पञ्चमव्रतस्याऽतिचारानाहधनधान्यस्य कुप्यस्य गवादेः क्षेत्रवास्तुनः । हिरण्य हेनश्च संख्याऽतिक्रमोऽत्र परिग्रहे ॥६५॥ अत्र श्रावकधर्मोचित परिग्रहवते यः संख्याऽतिक्रमः सोऽतिचार: कस्य कस्येत्याह-धनं गणिमधरिममेयपरीक्ष्यलक्षणम् । यदाह-- 'गणिमं जाईफलफोप्फलाइ धरिमं तु कुश्मगुडाइ । मेज्ज चोप्पडलोणाइ रयणवत्थाइ परिच्छेज्नं ॥ १ ॥ धान्यं सप्तदशविधम् । यदाह व्रीहिर्यवो मसूरो गोधूममुहमाषतिलचणकाः । अणव: प्रियङ्गुकोद्रवमकुष्टकाः शालिराढक्यः ॥ १॥ किञ्च कलायकुलत्थौ सणसप्तदशानि धान्यानि । धनं च धान्यं च धनधान्यं तस्य धनधान्यस्य । अत्रोत्तरत्र च समाहारनिर्देशः परिग्रहस्य पञ्चविधत्वज्ञापनार्थः। तथा सति यतिचारपञ्चकं सुयोजं भवति । कुप्यं रूप्यसुवर्णव्यतिरिक्तं कांस्य (१) गणिमा जातिफलपूगफलादि धरिमा तु कुङ्कमगुडादि । मेयं म्रक्षणलवणादि रत्न वस्त्रादि परिच्छेद्यम् ॥ १ ॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy