SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ५५६ योगशास्त्रे तानां विवाहनं विवाहकरणं कन्याफललिप्सया, स्नेहसम्बन्धादिना वा परिणयनविधानम् । इदं च खदारसन्तोषवता स्वकलत्रात् परदारवर्जकेन च स्वकलनवेश्याभ्यामन्यत्र मनोवाक्कायमैथुनं न कायं न च कारणीयमिति यदा प्रतिपन्नं व्रतं भवति, तदा अन्यविवाह करणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, तद्वती तु मन्यते-विवाह एवाऽयं मया विधीयते न मैथुनं कार्यते इति व्रतसापेक्षत्वादतिचार इति कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नाऽवस्थायां सम्भवति, मिथ्यादृष्टस्तु भद्रकावस्थायामनु. ग्रहार्थं व्रतादाने सा सम्भवति। नन्वन्यविवाहनवत् स्वापत्यविवाह नेऽपि समान एव दोषः । सत्यम् । यदि खकन्याया विवाहो न कार्यते, तदा स्वच्छन्दचारिणी स्यात्, ततश्च शासनोपधात: स्यात् ; विहितविवाहा तु पतिनियन्त्रितत्वेन तथा स्यात् । परेऽप्याहु: पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्रस्त स्थविरे भावे न स्त्री स्वातन्वामहति ॥ १ ॥ यस्तु दाशाहस्य कृष्णस्य चेटकराजस्य च स्वापत्येष्वपि विवाहनियमः श्रूयते, स चिन्तकान्तरसद्भावे द्रष्टव्यः । अन्ये वाहु:अन्यस्य कलनाऽन्तरस्य विशिष्ट सन्तोषाभावात् स्वयं विवाहनमन्य विवाहनम् । अयं वदारसन्तुष्टस्याऽतिचारः । इति टतौयः ३ । मदने कामेऽत्याग्रहः परित्यक्तान्यसकलव्यापारस्य तदध्यवसायत: योषामुखकक्षोरूपस्थान्तरेष्वविटप्ततया प्रक्षिप्य प्रजननं महतों वेलां निश्चलो मृत एवास्ते, चटक इव चटकायां मुहु
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy