SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ५२४ योगशास्त्रे __ 'मेवेमि जे अईया जे अणागया जे अ वट्टमाणा ते सव्वे सोवहिधम्मो देसियवो त्ति कटु एगं देवदूसमादाय निक्वमिंसु निकवामंति निक्वमिस्मंति वा । प्रव्रज्योत्तरकालं च सर्वबाधासहत्वान वस्त्रेण प्रयोजनमिति यथाकथञ्चित्तदपैतु नाम। गुरुलिङ्गानुवर्तनं च तच्छिष्याणां यदुक्तं, तदैरावणानुकरणमिव सामान्यकरिणाम् । किं च । तीर्थकरानुकारमिच्छद्भिर्मठे निवसनमाधाकर्मिकादिपरिभोगस्तैलाभ्यङ्गोऽङ्गारशकटीसेवनं दृणपटीपरिधानं कमण्ड लुधारणं बहुसाधुमध्ये निवासश्छद्मस्थानां धर्मदेशनायाः करणं शिष्यशिष्यादीक्षादिकं सर्वम विधेयं स्यात्, तच्च कुर्वन्ति । कम्बलस्य च वर्षासु बहिनिर्गतानां तात्कालिकदृष्टावप्कायरक्षणमुपयोगः, बालवडग्लाननिमित्तं वर्षत्यपि जलधरे भिक्षायै निःसरतां कम्बलावृतदेहानां न तथाविधापकायविराधना, उच्चारप्रस्रवणादिपीडितानां कम्बलावृतदेहानां गच्छतामपि न तथाविधा विराधना। छत्राद्याच्छादितानां कम्बलमन्तरेणापि गच्छतां को दोष इति चेत् । न । 'छत्तस्म य धारणट्ठाए' इत्यागमन छत्रस्य प्रतिषिडत्वात् ॥ रजोहरणं पुनः साक्षाज्जीवरक्षार्थ प्रतिलेखनाकारित्वादुपयोगीति कस्तत्र विवादं कुर्यात् ?। मुखवस्त्रमपि सम्पातिमजीवरक्षणादुष्णमुखवातविराध्यमानबाह्यवायु (१) सेवे येऽतीता येऽनागता ये च वर्तमानास्ते सर्वे सोपधिधर्मो देष्टव्य इति कृत्वा एकं देवदूष्यमादाय निरक्रमिघुः निष्कामन्ति निमिष्यन्ति वा।।
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy