SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ५२. योगशास्त्रे . अनेन हिरण्यादिदाननिषेधस्तेषां यतेरनधिकारात्। तदेतदतिथिसंविभागवतमुच्यते । अतिथेः सङ्गतो निर्दोषो विभागः पश्चात्कर्मादिदोषपरिहारायांशदानरूपोऽतिथिसंविभागस्तद्रूपं व्रतम तिथिसंविभागवतम् । आहारादीनां च न्यायार्जितानां प्रासुकैषणीयानां कल्पनीयानां च देशकाल श्रद्धा सत्कारपूर्वकमात्मानुग्रहबुद्ध्या यतिभ्यो दानम तिथिसंविभागः । यदूचुः -- 'नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दवाणं देसकालसहासकारक्कमजुनं पराए भत्तौए आयाणग्गहबुद्धौए संजयाणं दाणं अतिहिसंविभागो। अनूदितं चैतत् प्रायः शुद्धैस्त्रिविधविधिना प्रासुकैरेषणीयः कल्पाप्रायैः स्वयमुपहतैर्वस्तुभि: पानकाद्यैः। काले प्राप्तान् सदनमसमथडया साधुवर्गान् धन्याः केचित्परमवहिता हन्त ! संमानयन्ति ॥ १ ॥ अशनमखिलं खाद्यं स्वाद्यं भवेदथ पानकं यतिजनहितं वस्त्रं पात्रं सकम्बलप्रोञ्छनम् । वसतिफलकप्रख्यं मुख्यं चरित्रविवईनं निजकमनसः प्रोत्याधायि प्रदेयमुपासकैः ॥ २ ॥ (१) न्यायागतानां कल्पनीयानां अन्नपानादीनां द्रव्याणां देशकालश्रद्धासत्कारक्रमयुतं परया भक्या प्रात्मानु प्रहबुद्धमा संयतानां दानं अतिथिमविभागः।
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy