SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १४ योगशास्त्रे भगवन्तं ततो नत्वोपविश्य चुलनीपिता। शुश्राव परया मक्त्या प्राञ्जलिर्धर्मदेशनाम् ॥ १० ॥ अथोत्थितायां सदसि प्रणम्य चरणी प्रभोः । इति विज्ञपयामास विनीतश्चलनी पिता ॥ ११ ॥ खामिन्नस्मादृशां बोधहेतोविहरसे महीम् । जगहोधं विना नान्यो ह्यर्थश्चङ्क्रमण रवः ॥ १२ ॥ सर्वोऽपि याच्यते गत्वा स दत्ते यदि वा नवा। आगत्य याचितो धर्म दत्से हेतुः कपाऽत्र ते ॥ १३ ॥ जानामि यतिधर्म चेत् ग्रहामि स्वामिनोऽन्तिके । योग्यता परमियती मन्दभाग्यस्य नास्ति मे ॥ १४ ॥ याचे श्रावकधर्म तु स्वामिन् ! देहि प्रसीद मे। प्रादत्तेऽब्धावप्युदको भरणं निजमेव हि ॥ १५ ॥ यथासुखं ग्रहाणेति स्वामिनाऽनुमतस्ततः । स प्रत्याख्यत्स्थूल हिंसां मृषावादं च चौरिकाम् ॥ १६ ॥ प्रत्याख्यच्च स्वभार्यायाः श्यामाया अपरस्त्रियम् । अष्टाष्टकोव्यभ्यधिकं स्वर्णे निध्यादिषु त्रिषु ॥ १७ ॥ व्रजेभ्योऽन्यानथाष्टभ्यः प्रत्याचख्यौ व्रजानपि । हलपञ्चशतीतोऽन्यां कृषियोग्यां महीमपि ॥ १८ ॥ अनःशतेभ्यः पञ्चभ्यो दिग्यायिभ्योऽपरं त्वनः । संवहद्भाश्च पञ्चभ्यः प्रत्याचख्यौ महामतिः ॥ १८ ॥ दिग्यात्रिकाणि चत्वारि चत्वारि प्रवहन्ति च । वाहनानि विना सोऽथ प्रत्याख्यदितराणि तु ॥ २० ॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy