SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ४८३ टतीयः प्रकाश: । यः कश्चिद्धर्मधनो हि रात्रिभोजनस्य विरतिं करोति, सोऽई पुरुषायुषस्योपोषित: स्यात् । उपवासस्य चैकस्यापि निर्जराकारणत्वान्महाफलत्वं पञ्चाशवर्षसम्मितानां तूपवासानां कियत्फलं सम्भाव्यते ; इदं च शतवर्षायुषः पुरुषानधिकृत्योक्तम् । पूर्वकोटी. जोविनम्तु प्रति तदईमुपवासानां न्यायसिद्धमेव ॥ ६८ ॥ तदेवं रात्रिभोजनस्य भूयांसो दोषास्तत्परिवर्जने तु ये गुणास्तान् वक्तुमस्माकमशक्तिरेवेत्याह रजनीभोजनत्यागे ये गुणाः परितोऽपि तान् । न सर्वज्ञादृते कश्चिदपरो वक्तुमीश्वरः ॥ ७० ॥ स्पष्टम् ॥ ७० ॥ . अथ क्रमप्राप्तमामगोरससंपृक्तहिदलादिभोजनप्रतिषेधमाहआमगोरससंपृक्त दिदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मास्तस्मात्तानि विवर्जयेत् ॥७१॥ इह हीयं स्थितिः केचिद्भावाः हेतुगम्याः, केचित्त्वागमगम्यास्तत्र ये यथा हेत्वादिगम्यास्ते तथैव प्रवचनधरैः प्रतिपादनीयाः । आगमगम्येषु हेतून्, हेतुगम्येषु त्वागममात्र प्रतिपादयन्नाज्ञा. विराधक: स्यात् । यदाह जो हेउवायपक्वम्मि हेउी आगमै य आगमित्री । (१) यो हेववादपन्ने हेतुक आगमे चागमिकः ।
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy