SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ २८० योगशास्त्र खगं यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो यचं किं न करोषि माटपिटभिः पुत्रैस्तथा बान्धवैः ॥१॥ मधुपर्कादिषु च हिंसा श्रेयसे नान्यत्रेति स्वच्छन्दभाषितं, को हि विशेषो हिंसाया येनैका श्रेयस्करी नान्येति । पुण्यात्मानस्तु सर्वाऽपि हिंसा न कर्त्तव्येत्याहुः । यथा 'सब्वे जीवा वि इच्छंति जीविउं न मरजिउं । तम्हा पाणिवहं घोरं निग्गंथा वज्जयंति णम् ॥ १ ॥ यत्तूक्तं आत्मानं च पशूश्चैव गमयत्युत्तमां गतिमिति । तदतिमहासाहसिकादन्यः को वक्तुमर्हति । अपि नाम पशोरहिंस्रस्थाकामनिर्जरयोत्तमगतिलाभः संभवेत् द्विजस्य तु निशातकपाणिकाप्रहारपूर्व सौनिकस्येव निर्दयस्य ' हिंसतः कथमुत्तमगतिसंभावनाऽपि स्यात् ॥ ३८ ॥ एतदेव विशेषाभिधानपूर्वकमुपसंहरबाहदेवोपहारव्याजेन यतव्याजेन येऽथवा । घ्नन्ति जन्तून् गतवृणा घोरां ते यान्ति दुर्गतिम् ॥३६॥ देवा भैरवचण्डिकादयस्तेभ्यः उपहारो बलिः स एव व्याजं छद्म तेन महानवमीमाधाष्टमीचैत्राष्टमीनमसितकादिषु देवपूजाच्छद्म (१) सर्वे जीवा अपि इच्छन्ति जीवितुं न मर्तुम् ।। तस्मात् प्राणिवधं घोरं निर्गन्या वर्जयन्ति ॥ १ ॥
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy