SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे यावत्यः काश्चिच्छास्त्रे चोदिता हिंसास्ताः संक्षिप्य दर्शयतिमधुपर्के च यज्ञे च पिटदैवतकर्मणि । अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः ॥ ३५ ॥ मधुपर्कः क्रियाविशेष: तत्र गोवधो विहितः यज्ञो ज्योतिटोमादिः तत्र पशुवधो विहितः पितरो दैवतानि यत्र कर्मण्यष्टकादौ तच्च श्राई यहा पितॄणां दैवतानां च कर्म महायज्ञादि ॥ ३५ ॥ एष्वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविहिजः । आत्मानं च पशूश्चैव गमयत्युत्तमां गतिम् ॥३६॥ एतानर्थान् साधयितुं पशून् हिंसन् हिज प्रात्मानं पश्चिोत्तमा गतिं स्वर्गापवर्गलक्षणां गमयति प्रापयति वेदतत्त्वार्थविदिति विदुषोऽधिकारित्वमाह ॥ ३६ ॥ हिंसाशास्त्रमनूद्य पुनस्तदुपदेशकानाक्षिपतिये चक्रुः क्रूरकर्माण: शास्त्रं हिंसोपदेशकम् । क्वते यास्यन्ति नरके नास्तिकेभ्योऽपि नास्तिकाः ॥३॥ ये मन्वादयः क्रूरं निघृणं कर्म येषां ते क्रूरकर्माण: शास्त्र स्मृत्यादि हिंसाया उपदेशकं चक्रुः ते हिंसाशास्त्रकार: क नरके यास्यन्तीति विस्मयः ते चास्तिकाभासा अपि नास्तिकेभ्योऽपि नास्तिकाः परमनास्तिका इत्यर्थः ॥ ३० ॥
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy