SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ २६२ योगशास्त्रे राजा तस्य परिज्ञाय प्रकष्टं बुद्धिकौशलम् । ददौ सर्वाधिकारित्वं गुणा हि गरिमास्पदम् ॥ ४ ॥ अन्यदा श्रीमहावीरो विहरन् परमेश्वरः ।। जगत्पूज्यः पुरे तस्मिन्बागत्य समवासरत् ॥ ५ ॥ श्रुत्वा स्वामिनमायातं जङ्गमं कल्पपादपम् । कृतार्थमानी तत्रागान्मुदितः श्रेणिको नृपः ॥ ६ ॥ यथास्थानं निषसेषु देवादिषु जगहुरुः । .. प्रारभ दुरितध्वंस'देशनी धम्मदेशनाम् ॥ ७ ॥ तदा कुष्ठगलत्कायः कश्चिदेत्य प्रणम्य च। . निषसादोपतीर्थेशमलर्क इव कुष्टिमे ॥ ८॥ ततो भगवतः पादौ निजपूयरसेन सः । निःशङ्कश्चन्दनेनेव चर्चयामास भूयसा ॥ ८ ॥ तहीक्ष्य श्रेणिक: क्रुडो दध्यौ वध्योऽयमुत्थितः। . पापीयान् यज्जगत्तर्येवमाशातनापर: ॥ १० ॥ अत्रान्तरे जिनेन्द्रेण क्षुते प्रोवाच कुष्ठिकः । नियस्खेत्यथ जीवति श्रेणिकेन क्षुते सति ॥ ११ ॥ क्षतेऽभयकुमारेण जीव वा त्वं म्रियस्व वा । कालसौकरिकेणापि क्षुते मा जीव मा मृथाः ॥ १२ ॥ जिनं प्रति मियखेति वचसा रुषितो नृपः । इतः स्थानादुच्छ्रितोऽसौ ग्राह्य इत्यादिशगटान् ॥ १३ ॥ (१) क ग छ प्रत्यादेशनीं।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy