SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ २५४ योगशास् जयतादेष चक्रौति भाषिणो मागधा इव । ब्रह्मदत्तोपरि सुराः पुष्पवृष्टिं वितेनिरे ॥ ४५ ॥ पौरैः पितेव मातेव देवतेव स वीक्षितः | पुरं विवेश काम्पोल्यं सुत्रामेवामरावतीम् ॥ ४६ ॥ विभिन्नस्वामिनोद्भूतसोमनिर्मूलनादसी । षट्खण्डां साधयित्वोवमेकखण्डां विनिर्ममे ॥ ४७ ॥ संवत्सरैर्द्वादशभिरुपेत्योपेत्य सर्वतः । तस्याभिषेको विदधे भरतस्येव राजभिः ॥ ४८ ॥ चतुःषष्टिसहस्रान्तःपुरस्वौपरिवारितः । स राज्यसौख्यं दुभुजे प्राक्तपोभूरुहः फलम् ॥ ४८ ॥ अन्धेत्युर्नाव्यसङ्गीते तस्य दास्या समर्पितः । स्वर्वधूगुम्फितइव विचित्रः पुष्पगेन्दुकः ॥ ५० ॥ ब्रह्मदत्तस्तु तं दृष्ट्वा दृष्टपूर्वी मयेदृशः । कुत्रापीति व्यधादन्तरूहापोहं मुहुर्मुहुः ॥ ५१ ॥ प्राक्पञ्चजन्मस्मरणोत्पत्तेस्तत्कालमेव च । 'सौधर्मे दृष्टवानेतदित्यज्ञासोन्महीपतिः ॥ ५२ ॥ स सिक्तञ्चन्दनाम्भोभिः स्वस्थोभूयेत्यचिन्तयत् । कथं मेलिष्यति स मे पूर्वजन्मसहोदरः || ५३ ॥ तं ज्ञातुकामः श्लोकार्थसमस्यामेवमार्पयत् । आख दासौ मृगौ हंसौ मातङ्गावमरौ तथा ॥ ५४ ॥ (१) क चड मूर्च्छित्वा ज्ञातवानेतं सौधर्मे दृष्टवानिति ।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy