SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ । योगशास्त्रे बिरुद्दमपि क्रियेत । क्षणिकतिनिर्माणार्थं तु समापयन्ति समाप्ति नयन्ति जन्म अन्यस्य वध्यस्य शरीरिणः । अयमर्थः परप्राणिमांसजन्यक्षणिकटप्तिहेतोराकालिकं परस्यायुः समाप्यत इति महदिदं वैशसम् । यदाह योऽशाति यस्य तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका दृप्तिः प्राणैरन्यो वियुज्यते ॥ १ ॥ २५॥ मियखेत्युच्चमानोऽपि देही भवति दुःखितः । मार्यमाणः प्रहरणैर्दारुणैः स कथं भवेत् ॥ २६ ॥ नियस्व त्वमित्युच्यमानोऽपि न तु मार्यमाणो देही जन्तुर्जायमानमृत्युरिव दुःखितो भवतीति सर्वप्राणिप्रतीतम् । प्रहरणैः कुन्ततोमरादिभिर्मार्यमाणो विनाश्यमानः स वराको देही कथं भवेत् । परमदुःखित एव भवेदित्यर्थः । मरणवचनेनाऽपि दूयमानस्य निशितैः शौर्मारणमिति मृतमारणं तत्कथं सकर्ण: कुर्यादिति निन्दा ॥ २६ ॥ हिंसाफलं दृष्टान्तहारणाह श्रूयते प्राणिघातेन रौद्रध्यानपरायणी । सुभूमो ब्रह्मदत्तश्च सप्तमं नरकं गतौ ॥ २७ ॥ श्रूयते पाकर्ण्यते एतदागमे । यदुत प्राणिघातेन हेतुना सुभूम
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy