SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः | उपकारो गुणैरास्तामपकारोऽयमावयोः । तदिदं क्रियमाणायाः शान्तेवेताल उत्थितः ॥ ४८ ॥ कलालावण्यरूपाणि स्थूतानि वपुषा सह । तदेवानर्थसदनं तृणवत्यज्यतां क्षणात् ॥ ४८ ॥ इति निश्चित्य तौ प्राणपरिहारपरायणौ । मृत्युं साक्षादिव द्रष्टुं चेलतुर्दक्षिणामभि ॥ ५० ॥ ततो दूरं प्रयातौ तौ गिरिमेकमपश्यताम् | यत्रारूदैर्भुवीक्ष्यन्ते करिण: किरिपोतवत् ॥ ५१ ॥ भृगुपातेच्छया ताभ्यामारोहह्नयां महामुनिः । ` ददृशे पर्वते तस्मिन् जङ्गमो गुणपर्वतः ॥ ५२ ॥ प्रावृषेण्यामिवाम्भोदं मुनिं गिरिशिरः स्थितम् । दृष्ट्वा प्रनष्टमन्तापप्रसरौ तौ बभूवतुः ॥ ५३ ॥ तौ प्राग्दुःखमिवोज्झन्तावानन्दाश्रुजलच्छलात् । तत्पादपद्मयोर्भृङ्गाविव सद्यो निपेततुः ॥ ५४ ॥ समाप्य मुनिना ध्यानं कौ युवां किमिहागतौ । इति पृष्टौ स्ववृत्तान्तं तावशेषमशंसताम् ॥ ५५ ॥ स ऊचे भृगुपातेन वपुरेव हि शीर्यते 1 शौर्यते नाशुभं कर्म जन्मान्तरशतार्जितम् ॥ ५६ ॥ त्याज्यं वपुरिदं वाश्चेद् ग्टहीतं वपुषः फलम् । तच्चापवर्गस्वर्गादिकारणं परमं तपः ॥ ५७ ॥ इत्यादि देशना वाक्यसुधानिधतमानसौ । तस्य पार्श्वे जग्टहतुर्यतिधर्म मुभावपि ॥ ५८ ॥ . २८ २१७
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy